________________
ललितविस्तरा-सटीका
टी०...अर्थात् प्रस्तुत-योग्यताप्रक्रान्तसम्बन्धयोः कार्यकारणभावे सिद्धे, तवान्वयव्यतिरेकप्रक्रियां घटयति. प्रस्तुतयोग्यतारूपकारणाभावे सति प्रक्रान्तसंबंधरूपकार्यसत्ता नास्ति, इति व्यतिरेकः प्रस्तुतयोग्यताऽत्र कारणं, प्रक्रान्तसम्बन्धः कार्यम्, प्रस्तुतयोग्यतासत्तायां प्रक्रान्तसम्बंधरूपकार्यसिद्धिः, ततोऽधिकृतजन्मादिप्रपञ्चसत्ता, एवं च पूर्वोक्तव्यतिरेकस्य मान्यतायां वक्ष्यमाणातिव्याप्तिरूपातिप्रसंगनामकदोषस्य व्याघातो-निवारणं भवति, यदि प्रस्तुतयोग्यताया अभावे प्रक्रान्तसंबंधरूपकार्यस्य मान्यतायां, अतिव्याप्तिः = कारणाभावप्रयुक्तकार्योत्पत्तिरूपव्यतिरेकव्यभिचार आयाति (वादिनो ऽग्रतोऽतिप्रसंगनामकदोषरूपो महाव्याघ्र उत्थापित: स्यात्तदा स स्वयमेव प्रकृतयोग्यताया अभावे प्रस्तुत-संबंधस्याभावरूपं व्यतिरेकं स्वीकरिष्यति, इत्युद्दिश्यातिप्रसङग उत्थापितः, अथाऽतिप्रसङगं प्रदर्शयति ये कर्मसंबंधप्रपंचरहिता मुक्ताऽऽत्मानः सन्ति तेषु प्रस्तुतयोग्यताया अभावोऽस्ति, तत्र प्रक्रान्तसम्बन्धस्य प्रतिपत्ती, अनिष्टमहानिष्टजन्मादिप्रपंचस्यातिप्रसङग-आपत्तिः स्यादेव, यतो युष्माकं मते प्रस्तुतयोग्यताया अभावे प्रक्रान्तसंबंधस्य विरोधो नास्त्येव, इदमन हृदयम् 'भो आत्माऽकर्तृत्ववादिन् । यदि त्वं प्रस्तुतयोग्यताया अभावे प्रक्रान्तसंबंधोऽस्ति, इति कथयसि तदा मुक्ताऽऽत्मसु किमपितु मुक्तात्मभिन्न-सर्व-जीवाऽऽत्मसु त्वन्मतेन नित्यप्रक्रान्तसंबंधोऽस्तीत्यनिष्टनित्यजन्मादि-प्रपंचस्यापत्ति:-अतिप्रसङगः-निर्विवाद भविष्यति) वस्तुतः प्रस्तुतविषयः = प्रस्तुतयोग्यतासत्त्वे प्रक्रान्तसम्बन्धसत्तारूपेणान्वयेन, प्रस्तुतयोग्यताया अभावे, प्रक्रान्तसम्बन्धस्या भावरूपेण व्यतिरेकेण सूक्ष्मधिया विचारणीयः ।। न च तत्तत्कर्माण्वादेरेव तत्स्वभावतयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्तथास्वभावापेक्षित्वात्, अन्यथा कल्पनाविरोधात्, न्यायानुपपत्तेः, न हि कर्माण्वादेस्तथाकल्पनायामप्यलोकाकाशन सम्बंधः,
प०...'नच' नैव तद यदुत-तत्तत्कण्विादेरेवोक्तरूपस्य 'तत्स्वभावतया' स आत्मना सह सम्बन्ध योग्यतालक्षणः स्वभावो यस्य तत्तया तद्भावस्तता तया, आत्मनो-जीवस्य तथा' सम्बन्धयोग्यतायामिबास्मदभ्युपगतायां सम्बन्धसिद्धिः कर्माण्यादिनेति; कुत इत्याह-'द्विष्ठत्वेन' दयाश्रयत्वेनास्य-सम्बन्धस्योभयो:--आत्मनः कग्विादेश्च तथास्वभावापेक्षित्वात, विपक्षेबाधकमाह-'अन्यथा'मास्मनः सम्बन्धयोग्यस्वभावाभावे 'कल्पनाविरोधात' कण्विादेरेव स्वसम्बन्धयोग्यस्वभावेन आत्मना संबंधसिद्धिरिति कल्पनाया व्याघातात, कुत इत्याह -'न्यावानुपपत्तेः' न्यायस्य-शास्त्रसिद्धदृष्टान्तस्यानुपपत्तेः, न च तथासंबंधसिद्धिरिति योज्यं (ग्यं), न्यायानुपपत्तिमेव भावयन्नाह-'न' व 'हिः' यस्मात् 'कर्माण्वादेः' उक्तरूपस्य 'तथाकल्पनायामपि' अलोकाकाशे संबंधयोग्यस्वभावकल्पनायामपि, किं पुनस्तदभाव इत्यपिशब्दार्थः, किमित्याह-'अलोकाकाशेन' प्रतीतेन 'संबन्धः' अवगाहावगाहकसक्षणः, कुत एवं इत्याह
टी...(१) उक्तरूपतत्तत्कर्माण्वादिनिष्ठाऽऽत्मना सह संबंधयोग्यता, स्वभावतयैव, आत्मनिष्ठकर्मादिना सह सम्बन्धयोग्यताया सत्यां कर्मादिना सह सम्बन्धसिद्धि नेति वाच्यम्, यतो याश्रयत्वेनास्य सम्बन्धस्यात्मनः कर्माण्वादेश्च तथायोग्यस्वभावापेक्षित्वात्,
68