________________
ललितविस्तरा-सटीका
अथान त्रिभिः पदैः स्तोतव्यसम्पद एव प्रधानायाः, साधारणासाधारणरूपाया हेतु-सम्पदो व्याख्यां कर्तुं परायणः शास्त्रकारः पूर्वमवतरणिका-सहितं द्वितीयसम्पद्घटकं प्रथमं पदं व्याख्यातिएतेऽपि भगवन्तः प्रत्यात्मप्रधानवादिभिर्मालिकसाङ ख्यैः सर्वथाऽकर्तारोऽभ्युपगम्यन्ते 'अकर्ताऽऽत्मेति' वचनात्, तव्यपोहेन कथञ्चित् कर्तृत्वाभिधित्सयाऽऽह-"आदिकरेभ्यः" इति,
पं०...'प्रत्यात्मप्रधानवादिभिरिति' सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सैव प्रधान, ततः आत्मानमात्मानं प्रति प्रधानं वदितु शीलं येषां ते प्रत्यात्मप्रधानवादिनस्तः, उत्तरे हि साङ्ख्या 'एकं नित्यं सर्वात्मसु प्रधान' मिति प्रतिपन्नास्तग्यवच्छेदार्थ मौलिकसा व्यरित्युक्तं, तद्ग्रहणमपि च प्रत्यात्मकर्मभेदवादिनां जनानां कर्तृत्वमात्रविषयैव तैः सह विप्रतिपत्तिरित्यभिप्रायात् कृतम् ।
टी....अर्थतेऽपि-अर्हन्तो भगवन्तः, अपिशब्दतः सर्वे, आत्मानः, प्रत्यात्मप्रधानभेदवादिभि मौलिक (पूर्व) साङख्यैः (अत्र सुखदुःखमोहलक्षणरूपाणां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरेव प्रधानं-प्रत्येकात्मसु भिन्नं भिन्नमिति वादिभिः प्राचीनसाङख्यः) सर्वथा (सर्वैः प्रकाररेकान्ततः)अकर्तारः (कर्तृत्वरहिताः) अभ्युपगम्यन्ते-स्वीक्रियन्ते, यतः 'अकर्ताऽऽत्म' ति वचनमस्ति, अनोत्तरे (अर्वाचीनाः) हि साङख्या एकं नित्यं सर्वात्मसु प्रधानमिति प्रतिपन्ना:-सर्वेषु, आत्मसु, एकं नित्यं प्रधानं (प्रकृति) इति प्रतिपद्यन्तेऽर्वाचीनास्तद्व्यवच्छेदार्थ मौलिक-साङख्यरित्युक्तम्, तद्ग्रहणमपि प्रत्यात्मप्रधानभेदवादिनां मौलिक सांख्यानां ब्रहणमपि प प्रत्यात्मकर्मभेदवादिनां जनानां कर्तृत्वमाव-विषयैव तैः (प्राचीनसामः) सह विप्रतिपत्तिः (विरुद्धार्थ-प्रतिपादक-वाक्यद्वयं विप्रतिपत्तिविरोधः) -विप्रतिपत्तिवाक्यं
-विप्रतिपत्तिवाक्यंप्रत्यात्मप्रकृतिभेदवादिनो मौलिक
प्रत्यात्मकर्मभेदवादिनो जैनाः
। सांख्या:-आत्मा, जन्मादिप्रपञ्चस्य
आत्मा, जन्मादिप्रपञ्चस्य कर्ताऽस्ति, कर्ता नास्ति, प्रकृतिरेव कर्तीति वदन्ति. J प्रकृतिः कर्ती नास्ति, अचेतनत्वादिति वदन्ति. इति अभिप्रायात् कृतम् = अत्र मौलिकसांख्यैरिति कथनेनान प्राचीनसांख्याभिमतप्रत्यात्मप्रकृतिभेदवादेन सह प्रत्यात्मकर्मभेदवादिभिः जैनैः सह साम्यत्वेऽपि, आत्मनिष्ठकत्र्तृत्वविषयको विरोधो दर्शितः । अत्र सांख्याभिमतात्मनिष्ठाकर्तृत्वरूपविषयखण्डनाय, कथञ्चित्-अनेकान्तदृष्टया-स्याद्वादं प्रतीत्य-व्यवहारनयांपेक्षया, कर्तृत्वाभिधित्सया = सर्वे जीवात्मानः स्वस्वजन्मादि-कर्मादिप्रपञ्चरूपस्वसृष्टिं कुर्वन्ति, नान्य इति कर्तृत्वमभिधातुमिच्छया 'आदिकरेभ्यः' इति पदं सूत्रितम् । इहादौ करणशीला आदिकराः, अनादावपि भवे तदा तदा तत्तत्कण्विादिसम्बन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्येति हृदयं, अन्यथाऽधिकृतप्रपञ्चासम्भवः,
65