________________
ललितविस्तरा - सटीका
(३) समग्रं यश:-सर्वोत्कृष्टं यशः = रागद्वेषपरिषहोपसर्गंरूपभावशतुसेना-विजये क्षमापूर्वकप -- क्रमसमुत्थं (सर्व दिगंत पर्यन्तव्यापिख्यातिरूपयशः ) गुणगानद्वारा सुरासुरवरादिरूपते लोक्यस्यानन्दरूप - सुखस्य (तीर्थंकरा जन्मादिकल्याणकद्वारा ) कारकं, अत एव सर्वकालं ( सर्वकालावच्छेदेन) सार्वकालिकीं प्रतिष्ठां - प्रकृष्टस्थिति प्राप्तं, त्रिभुवनग्राह्यं चन्द्रोज्ज्वलं यशो विजयते,
(४) समग्रा श्री : - सर्वोत्कृष्टा श्रीः = ज्ञानावरणीय-दर्शनावरणीय - मोहनीयान्तरायरूपघनघातिकर्मचतुष्टयक्षयसमर्थविक्रमेणा वाप्त-- केवल ज्ञानज्योर्तिनिरतिशय--सर्वातिशायिसुखरूपलक्ष्मीसमन्वयः सर्वोत्कृष्टो विद्यते, अर्थात्तादृश - केवलज्ञाननिरतिशयानंदरूपश्रिया नित्यसम्बन्धवन्तो भावार्हन्तो भवन्ति, समवसरणादिबाह्यलक्ष्मी पतयश्च केवलज्ञानादि - अन्तरंगलक्ष्मीपतयो भावाऽर्हन्तो भवन्त्येव ( ' बहीलच्छी ओसरणाइ अंतरंगाउ केवलाईआ, धम्मो फल-रूवोजं न जिणत्ता धम्मफलमन्नं' | ) (५) समग्रो धर्मः - सर्वोत्कृष्टो धर्मः = सम्यग्दर्शन ज्ञानचारित्ररूपः, दान - शील- तपोभावनामयः, साश्रवः- पुण्यलक्षणश्चानाश्रवः - ( संवरः - संज्ञानयोगलक्षणः ) साश्रवानाश्रवरूप:, (धर्मो द्विधा मतः संज्ञानयोग एवैकस्तथाऽन्यः पुण्यलक्षणः, संज्ञानयोगः-समीचीनमहंत्प्रवचनानुसारि ज्ञानं गुरुपारतन्त्र्यनिमित्तं संवेदनं तेन सहितो योग: शुभवीर्योल्लासः, शास्त्र वार्त्तासमुच्चये )
तापके पास घास खासामध्ये योग- योगसंन्यासरूपसामर्थ्ययोगलक्षणमहायोगात्मकोऽर्थात् समग्रवसंत,
( ६ ) समग्र : प्रयत्न: - सर्वोत्कृष्टः प्रयत्नः परमवीर्यं (उत्कृष्टात्मवीयं ) समुत्थः, एकराविक्यादिमहाप्रतिमाभावहेतु: ( कायोत्सर्ग विशेष- तपोविशेषाभिग्रहविशेषरूपार्थत्रयरूप - महाप्रतिमाभावं प्रति हेतुः ) के वलिसमुद्घातः शैलेश्यवस्थातो व्यङग्यः (व्यञ्जनाशक्तिगम्यः, लक्ष्यः, मेयः ) समग्रः = सर्वोत्कृष्ट:- परमः प्रयत्नः, सकल-परम- प्रयत्नपतयो भावाऽर्हन्त एव भवन्ति भगपदस्य ये षडर्थाः सन्ति तदर्थवन्तो भगवन्त उच्यन्ते, तेभ्यो भगवद्द्भ्यो नमोऽस्त्विति द्वितीयपदम् । अर्थात् 'नमोऽस्त्वर्हद्भ्यः कीदृशा अर्हन्तः ? इति प्रश्ने भगवद्भ्यः इति प्रत्युत्तरे दत्ते, नमोऽस्त्वर्हद्भ्यो भगवद्भ्यः इति कथने भावार्हन्त एव स्तोतव्या इत्यायातम् ।
एवं सर्वत्र विशेषणस्थलेषु ' नमोऽस्त्वर्हद्भ्यः' इति क्रियापदं योजनीयम् तस्मात्कारणादेवंभूताःभगवत्स्वरूप विशेषणविशिष्टा भावाऽर्हन्तो देवाधिदेवा एव प्रेक्षावतां (विचारकाणां ) पुरुषाणां स्तोतव्याः - स्तुतिकर्मविषया भवन्ति इति स्तोतव्यसम्पत् = 'नमोऽत्थुणं अरहंताणं भगवंताणं' रूपा पदद्वयवती स्तोतव्यसंपत्, समाप्ता, अत एव तद्व्याख्यानमपि समाप्तम् । साङख्यानां द्वौ भेदौ वर्तते तथाहि (१) पूर्व (मौलिक - प्राचीन - निरीश्वर ) - सांख्यास्तु प्रत्यात्मप्रधान (प्रकृति) भेदवादिन:आत्मनि, आत्मनि प्रकृते र्भेदं मन्यन्ते (२) उत्तरसांख्यास्तु, आत्मनि, आत्मनि, एकां प्रकृति मन्यन्ते, ते प्रत्यात्मप्रधानवादिनः सन्ति इति सांख्यमतभेदौ,
64