________________
ललितविस्तरा - सटीका
ठवणजिणा जिणिदपडिमाओ । दव्वजिणा जिणजीवा, भावजिणा, समवसरणत्था" (चैत्य.भा.गा. ५१ ) तत्र नामजिना अहंतां पर्यायवाचकाः शब्दा यथा अर्हञ्जिनः पारगत इत्याद्याः, अथवा ऋषभाजितादीनि नामानि स्थापनाजिना:- जिनेन्द्राणां शाश्वत्यशाश्वत्यादि-रूपाः प्रतिमाः, द्रव्यजिना:- जिनजीवाः, द्रव्यदलिकं भूतभाविकारणं तदाश्रित्य जिना द्रव्यजिना । भावजिना:, समवसरणस्था जिना भावजिना, शिवगताश्च परमपदप्राप्ता भावतः सद्भावतो जिना भावजिना इत्यर्हतां नामाद्यनेकभेदसत्त्वे, 'तत्त्र नामादि- चतुर्भेदमध्ये भावोपकारकत्वेन ( 'भावुवयारो सम्मत्तनाणचरणेसु जमिह संठवणं' ध.सं., यदिह सम्यक्त्वं ज्ञान चरणेषु संस्थापनं स भावोपकारो विज्ञेयः ) भावोपकारस्य-तीर्थप्रवर्त्तनादिरूपभावोपकारस्य कारकत्वेन भावनिक्षेपो ग्राह्यो 'भावार्हतः परिग्रहार्थं भगवद्भ्यः' इति, अर्हन्तः कीदृशा अन गृहीता इति प्रश्ने विशेषणद्वारा भावार्हतो विज्ञापयति यथा 'नमोऽस्त्वर्हद्द्भ्यो भगवद्भ्यः, भावार्हद्रूपभगवद्द्भ्योऽर्हद्द्भ्यो नमोऽस्तु' अथ भगवत्पदघटकभगशब्दस्यार्थमर्हति वैशिष्ट्येन सङ्गमयति-:
तत्र भगः - समग्रैश्वर्याविलक्षणः, उक्तं च- " ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङगना ॥ १ ॥ " समग्रं चैश्वयं-भक्तिनम्रतया त्रिदशर्पातिभिः शुभानुबन्धिमहाप्रातिहार्य करणलक्षणं, रूपं पुनः संकलसुरस्यप्रचापविनिम्मि ताङगुष्ठरूपांगारनिदर्शनातिशयसिद्धं, यशस्तु- रागद्वेषपरीषहोपसर्गपराक बस यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनः घातिकर्मोच्छेदविक्रमावाप्त के वलालोकनिरतिशयसुखसम्पत्समन्वितता परा, धर्मस्तु- सम्यग्दर्शनाविरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगात्मकः, प्रयत्नः पुनः - परमवीर्यसमुत्थ एकरात्रि क्यादिमहाप्रतिमाभावहेतुः समुद्घात शैलेश्यवस्थाव्यंम्य: समग्र इति, अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः तेभ्यो भगवद्द्भ्यो नमोऽस्त्विति |२| एवं सर्वत्र क्रिया योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इति स्तोतव्यसम्पत् १ ।
टी.... (१) समग्रं चैश्वर्यम् - प्रकृष्टं प्रभुत्वं भक्तिनम्रत्वहेतुना चतुष्षष्टिसुरेन्द्र:- त्रिदशपतिभिः - त्रिभुवनपतीनां भावाऽर्हतां पुरतः शुभानुबन्धि-उत्तरोत्तरपुण्य-पुञ्जस्याविच्छिन्नधारावाहिअशोकवृक्षाद्यष्ट महाप्रातिहार्य करणलक्षणरूपं, अर्थादशोकवृक्षादिमहाप्रातिहार्य करणे त्रिदशपतिभिविरचने भाव - परमात्मनः पूर्ण प्रभुताया दर्शनं भवति ।
=
(२) समग्रं रूपं - सर्वोत्कृष्टं - अतिस्म्पं रूपं = सर्वैः सुरैः स्वकीयप्रभावेण विनिर्मितमङगुष्ठरूपं तव पदस्य पुरतोऽगार सदृशं दृश्यते इति दृष्टांतेन तव रूपमतिशयसिद्धमस्ति ( अङगुष्ठमेकमणुभिर्मणिजैः सुरेन्द्रा, निर्माय चेत्तव पदस्य पुरों धरेयुः । पुष्णोऽग्र उल्मुकमिवेश ! स ( तद् ) दृश्यतैव यत्ते समानमपरं नहि रूपमस्ति ||१२|| श्रीधर्मवर्धनकृतवी रभक्तामरे) ( सव्वसुरा जईरूवं अंगुठपमाणयं विउविज्जा । जिणपायंगुठं पइ न सोहए तं जहि गालो || आ.नि. ५६६ )
63