________________
ललितविस्तरा - सटीका
सामर्थ्य योगजननद्वारैव यथा मंगलमपि विघ्ननाशं कृत्वा ग्रन्थसमाप्ति करोति, तथा नमस्कारोऽपि - सामर्थ्य योगं जनयित्वा संसारतरणकार्यं करोति, नान्यथेति यथा धमिर्व्यापारस्तथा सामर्थ्य योगोऽप्येकप्रकारो व्यापारः, यतो नमस्कारजन्यसामर्थ्य योगः, संसारत रणरूपकार्यं प्रति जनकोऽप्यस्ति . ( द्वारत्वं तज्जन्यत्वे सति तज्जन्यजनकत्वम्) अथ वादी -:
आह-अयं 'प्रातिभज्ञानसंगत' इत्युक्तं, तत्किमिदं प्रातिभं नाम ?, असदेतत्, मत्यादिपञ्चकातिरेकेणास्याश्रवणाद्, उच्यते-चतुर्ज्ञानप्रकर्षोत्तरकालभावि केवलज्ञानादधः, तदुदये सवित्रालोककल्पमिति न मत्यादिपञ्चकातिरेकेणास्य श्रवण, अस्ति चैतद्, अधिकत्वावस्थोपपत्तेरिति एतद्विशेष एव प्रातिभमिति कृतं विस्तरेण १ ।
टी०... सामर्थ्य योगस्य लक्षणप्रसंगे 'अयं' सामर्थ्य योगः 'प्रातिभज्ञानसंगत: ' सामर्थ्य योगस्य प्रातिभज्ञानसंगतत्वं विशेषणमुक्तं पूर्वत्र, अत्र प्रश्नः - तत् किमिदं प्रातिभं नाम ? सामर्थ्ययोगेन सह प्रातिभं ज्ञानं किमपूर्वं श्रूयतेऽतोऽसदेतदसत्यं वाऽविद्यमानमेतद् यतो मति श्रुत- अवधि - मनः पर्यव केवल ज्ञानादिपञ्चकातिरेकेणाऽऽस्य - प्रातिभज्ञानस्याश्रवणं विद्यते, जैनागमे मत्यादिपञ्चकज्ञानादतिरिक्तं भिन्नं प्रातिभज्ञानं न श्रूयतेऽतः प्रातिभज्ञानमत्र कथं मन्येतेति चेदुच्यते क्षायोपशमिकमत्यादिरूपाणि यानि चत्वारि ज्ञानानि सन्ति तेषां चतुर्णां यः प्रकर्षः - सम्पूर्ण - प्रकृष्टदशा, तदुत्तर-कालभावि, केवलज्ञानपूर्वकालीनं, केवलज्ञानोदयात्पूर्वे सूर्यालोक = अरुणोदयसमानं प्रातिभज्ञानं, अर्थाद् यदा केवलज्ञानं सूर्यस्तदा तत्पूर्वं प्रातिभज्ञानमरुणोदयः, प्रातिभ ज्ञान -पूर्णानुभव ज्ञानानन्तरं केवलज्ञानसविता, समुदेति, अत एव प्रातिभज्ञानं मत्यादिपञ्चकादतिरिक्तं कुतः श्रवणं स्यात् ?, किचैतत् प्रातिभज्ञानमस्ति यतश्चतुर्ज्ञान प्रकर्षरूपाधिकत्वविशिष्टावस्थाया उपपत्ति विद्यते, अर्थात्चतुर्ज्ञानप्रकर्षोत्तरकालीन- केवलज्ञानाऽव्यवहित- पूर्व कालीनाधिकत्वाऽवस्थाविशेष एव प्रातिभं ( पारिभाषिकार्थविशिष्टं ) इति प्रातिभज्ञानं एवं शब्दविस्ताररूपेण विस्तरेण कृतमलम् |१| 'नमोत्थुणं अरहंताणं' रूपस्य चैत्यवंदनसूत्रस्य प्रथमपदस्य विवरणं समाप्तम् ॥
अथ शास्त्रकारः ‘भगवद्भ्यः' इति द्वितीयं विशेषणपदं कीदृशं कथं कथितं ? तथाऽस्यावतरणिकाऽनन्तरं 'भगवद्भ्यः' इति पदस्याद्भुता व्याख्या निरुच्यते -:.
एते चार्हन्तो नामाद्यनेकभेदाः 'नामस्थापनाद्रव्यभावतस्तन्न्यास' इति ( तत्त्वा. अ- १सू. - ५ ) वचनात्, तत्र भावोपकारकत्वेन भावार्हत्सम्परिग्रहार्थमाह- 'भगवद्द्भ्य इति '
टी.... पूर्वोक्तार्थसंयुक्ताः, 'एते' प्रत्यक्षोक्रियमाणा 'अर्हन्तो' नामाद्यनेकभेद - प्रकारवन्तः सन्ति, यतः 'नामस्थापनाद्रव्यभावतस्तन्यासः' सम्यग्दर्शनाद्या मोक्षमार्ग-रत्नरूपा, जीवाद्या तत्त्वरूपाः पदार्थाः, नामादिभिश्चतुभि निक्षेपैः साध्या- विचारणीया एवं च "नामजिणा जिणनामा,
62