________________
ललितविस्तरा - सटीका
संसारसागराओ, तारेइ नरं व नारि वा ॥ १ ॥ ' इत्यनेन पर्यन्तवतना सामर्थ्ययोगस्य, कारणे कार्योपचारान्न संसारतरणं सामर्थ्ययोगमन्तरेणेति कृत्वा ।
टी.... (१) पूर्वोक्तवर्णनद्वारा 'अत्र' चैत्यवंदनसूत्रमध्ये 'नमोऽस्त्वर्हद्भ्यः' इत्यनेनप्रथमपदेनेच्छा - योगस्य ( इच्छा - प्रधान- क्रियाविकल - नमस्काररूपतत्त्वधर्मव्यापारस्य प्रतिपादने - नेच्छायोगस्य) अभिधानमस्ति.
(२) 'नमो जिनेभ्यो जितभयेभ्यः' इत्यनेन तु वक्ष्यमाणेन - अन्तिमनवमीसम्पद्घटकपदेन शास्त्रयोगस्य विधानं, यतो निर्विशेषेण - विशेषं विना सामान्येन- सम्पूर्ण - ( अविकल - क्रियाषत्त्वेन ) नमस्कारमात्राभिधानं.
(शास्त्र प्रधानत्वेनाविकल - नमस्काररूप-तत्त्वधर्मव्यापाररूपशास्त्रयोगाभिधानं ) अर्थात् स्तोतव्यभावार्हदालम्बनविशेषस्थानरूप प्रथमाधिकारशक्रस्तवस्य समाप्तो वर्तमाननमः पदार्थंरूपनमस्कारः शास्त्रयोगं दर्शयति. विशेषप्रयोजनं चास्य स्वस्थान एव-नवमीसम्पद्व्याख्यानावसरे, एव शास्त्रयोगस्य विशेषप्रयोजनं वक्ष्यामः - कथयिष्याम इति ।
'तथा चैत्यवंदने सिद्धस्तवे 'एकोऽपि नमस्कारो जिनवरवृषभस्य वर्धमानस्य संसारसागरात् तारयति नरं वा नारीं वा ॥ १ ॥ इत्यनेन तु नमः पदार्थरूपनमस्काररूपेण पर्यन्तवत्तिना पदेन सामर्थ्ययोगस्य ( अभिधानं ) कारणे कार्योपचारादर्थाद् 'नमस्कारः सामर्थ्ययोगः अत्र नमस्कारः कारणं, यदा संसारतरणरूपकायं प्रति अव्यवहितहेतुरूप- सामर्थ्य योगोऽस्ति, अर्थाद् यथा 'घृतमायु: आयुष्कारणमपि घृतं कार्यकारणभावसम्बन्ध सम्बन्ध्या युस्तादात्म्येन प्रतीयते, अव्यभिचारेण आयुष्करत्वम् प्रयोजनं तथा 'नमस्कार सामर्थ्य योगः' इत्यत्र सामर्थ्य योगकारणमपि नमस्कारः, कार्यकारणभावसम्बन्धसम्बन्धी सामर्थ्ययोगस्ता दात्म्येन प्रतीयते, अव्यभिचारेण सामर्थ्य योगकरत्वं प्रयोजनं, नमस्कारे सामर्थ्य योगत्वा रोपः, सामर्थ्य योगसाधनत्वादित्यवधेयम् इदमत हृद-यम् = नमस्काररूपकरणे सामर्थ्य योगरूपकार्यस्योपचारं ( कारणे कार्योपचारविषय ज्ञापनार्थं मृत्तिकाघटयोरुदाहरणं विमर्शनीयम् - यदा मृत्तिका, मृत्तिकाऽवस्थायां स्यात्, मृत्तिकारूपेण भवेत्, घटरूपेण परिणता न भवेत्तदाऽपि सत्कार्यवादापेक्षयाऽथवा तिरोभाव-विवक्षया, मृत्तिका घटरूपा मन्तव्येत्येतदुपचारस्योदाहरणम् मृत्तिकावस्थायामपि मृत्तिका घटोऽस्तीति कथनमसत्य रहितम्, यद्यपि मृत्तिकायामस्यां घटनिष्ठजलाहरणादिका धर्मा न सन्ति अर्थान्मृत्तिकयाऽनया किञ्चिदपि घटकार्यं न क्रियते न कत्तु शक्तिरस्ति, तथापि रूपाद्याः केचिद् धर्माः समाः सन्ति तथा भविष्यत्काले घटो भवितुमर्हतीति न्यायेन द्रव्यघटे - घटाका रजननयोग्यतावति भावघटस्योपचारो व्यवहारो भवति ) कृत्वा, नमस्कारः सामर्थ्ययोग इति व्यवहि यते, संसारात्तरणं सामर्थ्ययोगं विना न सम्भवति, सामर्थ्ययोगाविनाभावि संसारात्तरणं, सामर्थ्ययोगस्तु तादृशनमस्कारं विना न भवति, अर्थाद्, नमस्कारः सामर्थ्ययोगजननद्वारा संसारत रणरूपकार्यं प्रति कारणम्, यथा दण्डो घटस्य कारणमस्ति साक्षान्नहि परन्तु भ्रमिद्वारा, तथा नमस्कारः संसारतरणं प्रति कारणमस्ति साक्षान्नहि परन्तु
61