________________
ललितविस्तरा-सटीका
(२) तारा = अस्यां दृष्टौ बोधस्तु करीषाग्निकणतुल्योऽस्ति, पूर्वस्या ईषदधिकोऽस्ति तथापि कार्यकाले बोधदीपो विध्यापितो भवति, वस्तुतस्तु बहुकालं न तिष्ठति, अतः कारणात् पूजादिशुभकार्यशुभकरणे सज्जतायामपि पूर्वस्मृतेः शुभत्वाभावेन कार्य कत्तुं न शक्नोति । (३) बला = अस्यां काष्ठाग्निकणतुल्यो बोधोऽस्ति, अत्राभ्यन्तरे पूर्वदृष्टिद्वयादीषदधिको वर्तते, अन प्रथमबोधद्वयमिलनेन वीर्यशक्तिरीषदधिका वर्त्तते, स्मृतिरपि मनाक्शुभा वर्ततेऽतः प्रभुपूजादिशुभ कार्येषु प्रीतिर्जायते परन्तु प्रयत्नोऽल्पोऽपि क्रियते । । (४) दीप्रा = अस्यां बोधस्तु दीपप्रभातुल्यः, पूर्वस्या अत्यन्तं शुभः, यतः पूर्वासां तिसृणां बोधोऽत्रायाति, अतोऽत्र वीर्यशक्तिस्तोत्रा, तथा कार्यकरणकालेऽत्र स्मृतिस्तीवा, अतो द्रव्यभावाभ्यां देवपूजागुरुभक्ति-प्रभृति-शुभकार्याणि करोति. (५) स्थिरा = अस्यां ग्रन्थिभेदभवनेन सम्यग्दर्शनं स्थिरं भवति, अन बोधस्तु रत्नप्रभातुल्यश्चिरस्थायी, परिणामतोऽप्रतिपाती, तत्त्वार्थरूपसूक्ष्मबोधो यथार्थो भवति, अज्ञानमिथ्यात्वयोरभावः, सरला बुद्धिः, शुभकार्यप्रवृत्तिः, प्रेमातिशयज्ञानपूर्विका क्रिया, असत्प्रवृत्ति-निवृत्तिः । (६) कान्ता = अस्यां बोधस्तु ताराप्रभा-तुल्यो भवति, रत्नप्रभाप्रकाशस्तु, अमुकमर्यादापर्यन्तो, यदाऽऽकाशस्थताराप्रकाशो, वहुदूरदेशं यावद् याति, स्थिरातोऽस्यां दृष्टो बोधोऽत्यन्तशुभो भवति, एतद् दृष्टिमान् स्थिरशान्तप्रकृतिप्रवृत्तिमत्त्वेन, धर्मानुष्ठानेषु निरतिचारत्वं भवति, शुद्धोपयोगसत्त्वेन प्रमादरहितत्वेन, वस्तुग्रहणमोचनकाले, शुद्धिप्रवृत्तिप्रधानो भूत्वा गम्भीरोदाराशयवान् सन्ननुष्ठानं करोति । (७) प्रभा = अस्यामादित्यप्रकाशतुल्यो बोधो भवति, नैरन्तर्येणात्मध्याने निमग्नो भवति, प्रायेणाऽस्यां संकल्पविकल्पाभावो यथा तथा यत्तत्प्रतिकूल विपरीतविचारमालातरङगाभावो भवति, यां यां करोति चेष्टां सा साऽवन्ध्यफला भवति. (८) परा = अस्यां चन्द्रज्योत्स्नातुल्यः सूक्ष्मो बोधः, सातत्येन स्व-स्वरूपे रममाणतारूपध्याने मग्नो भवति, तथा निर्विकल्पोऽतः परमसुखमनुभति, वृक्षारूढस्य पुनरारोहणमनावश्यकं तथैतद्दृष्टिमत उत्कृष्टान्तरात्मनो महात्मन आवश्यकादि-क्रियाऽनुष्ठानमनावश्यकं परन्तु यथाभव्यं परोपकारस्तथा पूर्ववदवन्ध्यक्रिया वर्तते ।। अथाऽत्र चैत्यवंदनसूत्रमध्ये कुन कुन योगः कस्को योगोऽस्तीति निरूपणम्-: तदत्र 'नमोऽस्त्वर्हद्भ्यः' इत्यनेनेच्छायोगाभिधानं, 'नमो जिनेभ्यो जितभयेभ्य' इत्यनेन तु वक्ष्यमाणेन शास्त्रयोगस्य, निविशेषेण सम्पूर्णनमोमात्राभिधानात, विशेषप्रयोजनं चास्य स्वस्थान एव वक्ष्याम इति ॥ तथा-'इक्कोऽवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स
60