________________
ललितविस्तरा - सटीका
स्थितिमानीय क्षयकरणीय-क्रिया साऽऽयोज्यकरणं, तस्य फलं शैलेशी = योगानामत्यन्तस्थिरताऽस्ति, तदनन्तरं द्वितीयो योगसंन्यासनामा सामर्थ्य योगः प्राप्यते, एवं तत्स्वरूपविदो वदन्ति, शैलेश्यव - स्थायां कायादिकर्मणां त्यागेन 'अयोग' नामकः सर्वयोगसंन्यासरूपसर्वोत्तमयोगः प्राप्यते, अनया रीत्याऽन्यैर्योगाचार्ये र्ज्ञापितं निर्गुणं ब्रह्म (मोक्षपदं) उपपद्यते, जैनशैलीप्रमाणेन शैलेशीकरणेन सम्पूर्ण योग निरोधरूपः, सर्वसंवररूपसंयमेन समस्त कर्मक्षयरूपं मोक्षपदं प्राप्यते एतदेव निर्गुणं ब्रह्म कथ्यते, सर्वोपाधिक-धर्मयोगाभाव एव निर्गुणपदार्थः)
अर्थात् केवलज्ञानरूपोपयोगेन ज्ञात्वाऽचिन्त्यवीर्यशक्तिद्वारा तथा तथा तत्तत्कालक्षपणयोग्यत्वेन भवोपग्राहि (अघाति) कर्मणः क्षपणकरणे प्रयत्नविशेषो नामायोज्यकरणं, शैलेश्यवस्थायामस्य भावात् तत आयोज्यकरणादूध्वं द्वितीयो योगसंन्यासनामकः सामर्थ्य योगो भवति.
अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन, सर्वसंन्यास लक्षणः
॥६॥ इत्यादि
( योगदृ. समु. - ३ - ११ )
पं०... 'अतस्त्वित्यादि' अत एव - शैलेश्यवस्थायां योगसंन्यासात्कारणात् 'भयोगो' योगाभावो 'योगानां ' मैत्यादीनां मध्य इति गम्यते, योगः 'परः' प्रधानः उदाहृतः, कथमित्याह - 'मोक्षयोजनभावेन' हेतुना, योजनाद् योग इतिकृत्वा, स्वरूपमस्याह - 'सर्व संन्यास लक्षणों' धर्माधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति.
ato.. ... अत एव = शैलेश्यवस्थायां प्राप्ययोगसंन्यासरूपासाधारण-कारण-अव्यवहितकारणजन्यो मनोवचः कायकर्मरूपयोगाभावः 'अयोगः' कथ्यते 'योगानां' मित्रादिरूप – योगदृष्टयादीना - - मथवा मैत्रीप्रमोदकारुण्यमाध्यस्थ्यादिरूपभावनारूपयोगानां मध्ये, अयोगरूपो योगः 'पर' प्रधान:श्रेष्ठ उच्यते, अयोगरूपपरयोगस्य प्रधानता - सिद्धये, उच्यते 'मोक्षयोजनभावेन' योजनाद्द्योग इति व्युत्पत्त्यपेक्षया मोक्षेण सहयोजनभावरूपहेतुना 'अयोगः' योगः कथ्यते, अयोगरूपयोगस्य स्वरूपमाह 'सर्वसंन्यासलक्षणः' तात्त्विका - तात्त्विकधर्मसंन्यास - योगसंन्यासरूपपौद्गलिकादृष्ट-- धर्माधर्मपुण्यपापसंन्यासरूपसर्व संन्यासलक्षणः, योगानां परयोगरूपः 'अयोगनामको' योगः, अव्यवहितत्वेन मोक्षेण सह योजकत्वेन कथ्यते इति हृदयम् ।
' इत्यादि' अनादिपदेन "एतत्त्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्ते, अष्टौ सामान्यतस्तु ताः ॥ मित्रा तारा बला दोप्रा, स्थिरा कान्ता प्रभा परा, नामानि योगदृष्टीनां लक्षणं च निबोधतेत्यादि" योग दृ. १२ / १३ श्लो. योगदृष्टीनां संक्षिप्तं स्वरूपं-:
(१) मिना = अस्यां दृष्टी, बोधस्तु तृणाग्नितुल्योऽस्ति, वस्तुतः स्वकार्यं साधको नास्ति, अल्पशक्तिकत्वादावश्यककार्यसमयं यावन्न तिष्ठति, सुन्दर स्मृतिबीजरूपशुभसंस्काराभावेन देवगुरुवन्दनादी वैकल्यमायाति, भावतो वंदनादिकार्यं न भवति ।
59