________________
ललितविस्तरा-सटीका कृतसामर्थ्य योगासिद्धः, अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्मस्थानेषु वर्तमावस्य-तथाऽसजातपूर्वो ग्रन्थिभेदादिफल उच्यते, तत्र प्रथमे तस्मिन् प्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफल:, सम्यग्दर्शनं च प्रशमादिलिंग आत्मपरिणामः, यथोक्तम-"प्रशमसंवेगनिदानकम्पास्तिक्याभिव्यक्तिलक्षणं, तत्त्वार्थश्रद्धानं सम्यग्दर्शन मिति” (तत्त्वार्थभाष्यम् अ. १ सू. २) यथाप्रधानमयमुपन्यासो लाभश्च पश्चानुपूर्येति समयविदो, द्वितीये स्वस्मिस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि, किमित्याह-"प्रथमस्तात्त्विको भवेदिति" प्रथमो धर्मसंन्याससंज्ञितः, सामर्थ्य योगस्तात्त्विक:-पारमार्थिको भवेत, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः, अतोऽयमित्थमुपन्यास इति, अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति सावधप्रवृत्तिलक्षणधर्मसंन्यासयोगः, प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात, "आयोज्यकरणादवमिति" केवलाभोगेनाचिन्त्यवीर्यतयाऽऽयोज्य-ज्ञात्वा तथा तथा ततत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथाऽवस्थानभावेन कृति:-आयोज्यकरणं, लेश्यवस्थायामस्य भावात् तत आयोज्यकरणादूध्वं तु द्वितीयः ।।
टी०...अन्न प्रथमापूर्वकरणं व्यवच्छेद्यं भवत्यतो द्वितीयापूर्वकरणं ग्राह्यम् यतः प्रथमाऽपूर्वकरणमधिकृतसामर्थ्ययोगसाधकं न भवति परन्तु ग्रन्थिभेदं प्रति मूलं-मुख्यं कारणं, अपूर्वकरणस्य लक्षणमपूर्वपरिणामः शुभोऽभतपूर्वोग्रन्थिभेदादिफलजनकः, अर्थात्प्रथमापूर्वकरणस्य फलं ग्रन्थिभेदः, ग्रन्थिभेदस्य फलं सम्यग्दर्शनं चात्मपरिणामः प्रशमादिपञ्चकलक्षणेनाऽनुमीयते, प्रशमाभिव्यक्तितः, संवेगाभिव्यक्तितः, निर्वेदाभिव्यक्तितः, अनुकम्पाऽभिव्यक्तितः, आस्तिक्याभिव्यक्तितश्च लक्ष्यते इति लक्षणं, प्रशमाद्यभिव्यक्ति-लक्षणम्, तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् इति, प्रधानश्रेष्ठस्यापेक्षया क्रमशः प्रशमादीनामुपन्यासः, प्रथमः प्रशमः प्रधानः, द्वितीयः संवेग प्रधानः इत्यादियथाप्रधानोपन्यासः, लाभश्च पश्चानुपूर्व्या यथाऽस्तिक्यस्य प्रथमो लाभः, अनुकम्पायास्तदनु लाभ . इत्यादि प्रधानलाभौ समयविदः कथयन्ति. तथाहि तथाविधकर्मस्थिते:--सम्यग्दर्शनप्राप्त्यनन्तरमवशिष्टकर्म स्थितेस्तथाविधसंख्येयसागरोपमाऽतिक्रमभाविनि द्वितीयापूर्वकरणे प्रथमो धर्मसंन्याससंज्ञितः सामर्थ्ययोगस्तात्त्विको भवेत्, यतः क्षपकश्रेणियोगिनः क्षायोपशमिकक्षमादिधर्मस्य निवृत्तिर्भवति, अतोऽयमित्थमुपन्यासः, अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति. ("कान्ता मे समतैवेका, ज्ञातयो मे समक्रियाः। बाह्यवर्गमिति त्यक्त्वा धर्मसंन्यासवान् भवेत् ॥३॥ ज्ञानसारे. त्यागाष्टके' अत्रैवं निश्चयभावेन बाह्यपरिवारं त्यक्त्वा गृहस्थसत्कारसमृद्धिप्रमुखौदयिकभावधर्मसंन्यासवान् भवेत्, अर्थादौदयिकभावं त्यक्त्वा क्षयोपशमवान्, औदयिकभावधर्मत्यागरूपातात्त्विकधर्मसंन्यासरूपसामर्थ्य योगः प्रव्रज्याकाले भवति) षष्ठगुणस्थानकेऽपि भवति (दानप्रभुपूजादि-सदारम्भरूप) सावधप्रवृत्तिलक्षणधर्मसंन्यासयोगः, प्रव्रज्याया (आत्मरतिरूप) ज्ञानयोगप्रतिपत्तिरूपत्वात्. "योगसंन्यासतस्त्यागी योगानप्यखिलांस्त्यजेत् । इत्येवं निर्गुणं ब्रह्म परोक्तमुपपद्यते ॥७॥ ज्ञानसारे त्यागाष्टके" त्यागी (क्षायोपशमिकधर्मसंन्यासी) योगसंन्यासतः सर्वयोगानपि त्यजेत्. एष योगसंन्यासश्चतुर्दशगुणस्थानके भवेत्तथाहि-केवलज्ञानेनाचिन्त्यवीयंशक्तितो भवोपग्राहिकर्मणस्तथाविध.
58