________________
ललितविस्तरा-सटीका
सामर्थ्ययोगः केन ज्ञानेन संगतो भवतीति प्रश्ने-आह 'प्रातिभज्ञानसंगतो'-मोक्षमार्गानुसारि-प्रकृष्टोहज्ञान-मानसिकतादृशविशिष्टज्ञानयुक्तः, ननु प्रातिभज्ञानं श्रुतज्ञानं तदस्तीति तस्याऽस्वीकारे, शास्त्रे पञ्च ज्ञानानि कथितानि सन्ति, तदतिरिक्तमते षड्ज्ञानानि भविष्यन्ति । प्रातिभज्ञानं केवलज्ञानं न कथ्यते केवलज्ञानं तु सामर्थ्ययोगस्य कायं भवति, प्रातिभज्ञानस्य श्रुतज्ञानेन्तर्भावश्चेत्तदा मोक्षप्राप्तिसधनानि यानि यानि सन्ति तानि तानि श्रुतज्ञानरूपशास्त्रजन्यान्येवेति निश्चये को दोषः? इत्युच्यते प्रातिभज्ञानं न श्रुतज्ञानं न तु केवल ज्ञानं पञ्चज्ञानेभ्योऽतिरिक्तं नास्त्येव. (सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः।। ज्ञानसारे अनु.म.उ.यशो.) केवल ज्ञानसूर्यात्प्राक्कालीनारुणोदयसमानानुभवापरपर्यायं प्रातिभज्ञानं कथ्यते, प्रातिभज्ञानं म श्रुतज्ञानं तथा न केवल ज्ञानं कथ्यते, यतः सामर्थ्ययोगकालीनक्षपकश्रेणिगतत्वेनोत्कृष्टक्षयोपशमभावं गृहीत्वा प्रातिभज्ञानं श्रुतज्ञानं न कथ्यते , क्षायोपशामिकभाववत्त्वेन, सर्वद्रव्यपर्यायाऽविषयकत्वेन केवलज्ञानं न कथ्यते, प्रातिभज्ञानमे तदारुणोदयकल्पं केवल ज्ञानपूर्वकालीनावस्थाविशेषात्मक कथ्यते, परे तारकनिरीक्षण-ज्ञानं कथयन्तीति अर्थात् प्रातिभज्ञानसंगतो वाचाऽवाच्योऽपि साम
र्थ्ययोगिस्वानुभवसिद्धः, सर्वज्ञत्वाव्यवहितसाधनरूपः क्षपकश्रेणिगतः, क्रियाऽतिशयसम्पन्नतत्त्व-धर्मव्यापारविशेषः सामर्थ्ययोगः कथ्यते. सामर्थ्ययोगभेदाऽभिधानायाऽह-:
द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः ।
क्षायोपशमिका धर्मा योगाः कायादिकम तु ॥७॥ पं०... द्विधा' द्विप्रकारोऽयं-सामर्थ्य योगः, कथमित्याह-'धर्मसंन्यासयोगसंन्याससंज्ञितः' संन्यासो निवृत्तिरुपरम इत्येकोऽर्थः, ततो धर्मसंन्याससंज्ञा सजाताऽस्येति धर्मसंन्याससंज्ञितस्तारकादिभ्य इत (तदस्य संजातं तारकादिभ्य इतन् पा.५-२-३६) एवं योगसंन्याससंज्ञा सजाताऽस्येति योगसंन्याससंज्ञितः, क एते धर्माः? के वा योगा इत्याह-'क्षायोपशमिका धर्माः' क्षयोपशमनिवृताः क्षान्त्यादयो, योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादय एवमेव द्विधा सामर्थ योग इति.
टी०...अत्र संन्यासशब्दस्य पारिभाषिकोऽर्थः, निवृत्तिविरतिस्त्याग इत्येकोऽर्थो न तु सम्यक्तया न्यासः-स्थापनं, धर्मसंन्यासनामकसामर्थ्ययोगघटकधर्मपदेन क्षायोपशमिकाः क्षमाद्या दशविधाः साधुधर्मा ग्राह्याः, योगसंन्यासनामकसामर्थ्ययोगघटकयोगपदेन कायोत्सर्गकरणादिरूपाः कायादिव्यापारा एवादेया नान्ये. अथ द्विविधः सामर्थ्य योगो यदा भवति तं तदाभिधातुमाह
द्वितीयापूर्वकरणे, प्रथमस्तात्विको भवेत् ।
आयोज्यकरणावं, द्वितीय इति तद्विदः ॥८॥ पं०...'द्वितीयापूर्वकरण इति' ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं, प्रथमेऽधि
-
-
57