________________
मलितविस्तरा - सटीका
सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्युपगम्यमाने दोषमाह-सथा' सर्वेः प्रकारैः अक्षे त्रफल साथ कृत्वादिभिः 'तत्परिच्छेदात्' शास्त्रादेव सिद्धयाख्य पदसम्प्राप्ते र्हेतु परिच्छेदात् किमित्याह-'साक्षात्कारित्वयोगत: ' केवलेनेव साक्षात्कारित्वयोगात् कारणात् 'तत्सर्वज्ञत्वसंसिद्ध:', श्रोतृयोगिसर्वज्ञत्वसंसिद्ध:, अधिकृतहेतुभेदानामन्येन सर्वथा परिच्छेदायोगात्, ततश्च 'तदा' श्रवणकाल एवं 'सिद्धिपदाप्तितः' मुक्तिपदाप्तः, अयोगिकेवलित्वस्यापि शास्त्रादेवायोगिकेवलिस्वभावभवने नावगतिप्रसंगाद्, अविषयेऽपि शास्त्रसामर्थ्याभ्युपगम इत्थमपि शास्त्रसामर्थ्य प्रसंगात्.
टी.... मोक्षाsभिधानपदसम्प्राप्तिकरण विशेवरूपसम्यग्दर्शनादीनामनन्तभेदा भवन्त्यतः, लोके साघुरूपयोगिभिः, सर्वेरेव प्रकारैस्तत्त्वतः, शास्त्रादेव नाऽवगम्यन्ते, सिद्धिनामकपदसम्प्राप्तिहेतु - भेदाः सर्वथा सर्वहेतु - परिच्छेदे शास्त्रादेवाऽभ्युपगम्यमाने क्षेषमाहअक्षेपफलसाधकत्वादियुक्तानन्तभेदावच्छिन्न - सर्वप्रकारैः, शास्त्ररूपकारणादेव सिद्धिनामकपदसप्राप्तिसर्व-हेतुविषयक - प्रत्यक्ष-परिच्छेदात्, केवल ज्ञानेनेव साक्षात् कारित्वयोगकारणात्, श्रोतृरूपयोगिनि सर्वज्ञत्वसंसिद्धिर्भवेत्, यतोऽधिकृत-मुक्तिहेतुभेदानामनन्तानां शास्त्रभिन्नहेतुना सर्वथा परिच्छेदस्याभावोऽस्ति, ततश्च तदा श्रवणकाल एवं मुक्तिपदप्राप्ति भवेत्, (अयोगिकेवलित्वेऽपि शास्त्ररूप-मुख्यकारणजन्यायोनिस्वभावभवनद्वारा शास्त्रायनम - श्रुतज्ञानस्य प्रसङगो भवति. मुख्यकार्यकारणयोरभेदात् शास्त्रस्याविषयेऽपि शास्त्रसामर्थ्याभ्युपगमः, अर्थाद्, शास्त्रस्य श्रवणेन श्रुतज्ञानं भवति, सामर्थ्येन प्रतिबन्धककर्मक्षयजन्य - मुक्तिप्राप्तिर्भवति, अविषयेऽपि शास्त्रे सामर्थ्यस्वीकारेण शास्त्रे सामर्थ्ययोगस्य प्रसङग - आप्रति भवति परन्तु शास्त्रं भिन्नं सामर्थ्ययोगोपिभिन्नोऽस्ति. )
शास्त्राणि दिग्दर्शकानीति वचनाद्, शास्त्रद्वारा मोक्षप्राप्ते रनन्तसाधनभेदाः कथं ज्ञायन्ते ? न ज्ञायन्त एव, तज्ज्ञाने श्रोतृरूपयोगिनि सिद्धिमार्गस्यानन्तभेदानां साक्षात्कारेण श्रवणसमय एव सर्वज्ञत्वप्राप्त्मा सह-सिद्धिपद-प्राप्तिरवश्यं भाविनी स्यात्, तन्न भवत्येव. अथ शास्त्रज्ञानेनाऽयोगिके वलित्वविषयकं श्रुतज्ञानं भवति
सिद्धिर्न भवत्यतः केन ज्ञानेन सामर्थ्ययोगो भवति ? येन सामर्थ्य योगेन सर्वज्ञत्व-सिद्धिर्भवति ? -: न चैतदेवं यस्मात्प्रातिः।
सामर्धयोगोऽवाच्योऽस्ति सर्वमवारिसाधनम् ॥६॥
पं०... स्यादेतत्, अस्त्वेवमपि का नो बाधेत्यवाह-'न चैतदेवं' अनन्तरोदित, शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्धयसिद्धेः यस्मादेवं तस्मात् 'प्रातिभज्ञानसंवतो' ग्राम्यनुसारिप्रकृष्टो हज्ञानयुक्तः किमित्याह'सामर्थ्यं योगः' सामर्थ्यप्रधानो योगः सामर्थ्य योगः प्रक्रमाद्धम्मं व्यापार एवं क्षपकश्रेणिगतो गृह्यते, अयमवाच्योऽस्ति तद्योषिस्वसंवेदनसिद्धः, 'सर्वज्ञत्वादिसाधनं' अक्षेपेणातः सर्वज्ञत्वसिद्धः ।
टी०... शास्त्रीय ज्ञानमात्रेण मोक्षफल सिद्धि र्न भवति, सामर्थ्ययोगेन सिद्धिर्भवति.
56