________________
नलितविस्तरा-सटीका
- टी०...विषयतया शास्त्रप्राधान्यविशिष्टो योगः-तत्त्वधर्मव्यापारः = शास्त्रयोगः, स पुनरिह-योगतन्त्रे ज्ञेयः, तथाविध-मिथ्यात्वादिमोहापगमजन्यं स्वसम्प्रत्यरूपं (अहमात्मास्मीत्याकारकं स्वनिर्णयात्मकज्ञानं) तथाऽत्मिकं (स्वीयं ज्ञानादि) तदादितत्त्वविषयकश्रद्धावतः, अप्रमादिनः-विकथादिरूपप्रमादरहितस्य, यथाशक्ति, विशेषणद्वयविशिष्टस्याऽन्तरात्मनः, तीव्रबोधरूपहेतुना, शास्त्रेण-आगमवचसा, अविकल:-अखण्ड: (परिपूर्णः) तथा-कालादिवैकल्यरूपबाधारहित्वेन तीवबोधेन = अपटवो-मन्दबुद्धयोऽतिचारदोषान् न जानन्त्येवेत्यतः, कालादिवैकल्यविषयकबाधाया अभावे तीव्रबोधहेतुत्वेन स्थापितः, तथा च वंदनादिविषयकक्रियाद्वारा, शास्त्रेणाखण्डः, तीव्रबोधद्वारा, कालादिवैकल्यरूपबाधारहितः, यथाशक्ति, अप्रमादिनः, श्राद्धस्य (श्रद्धावतः) तत्त्वधर्मव्यापारः शास्त्रयोगः कथ्यते ॥२॥ अथ सामर्थ्ययोगलक्षणमाह-:
.. शास्त्रसंदशितोपायस्तरतिकान्तगोचरः।
शक्त्युबेकाहिशेषेण, सामाख्योऽयमुत्तमः ॥३॥ पं०... शास्त्रसंदशितोपायः' सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रेऽभिहितः तदभिधानात् 'तदतिक्रान्तगोचरः शास्त्रातिक्रान्तविषयः, कुत इत्याह- शक्त्युकात्' शक्तिप्रावल्यात्, विशेषेण न सामन्येन शास्त्रातिक्रान्तगोवरः, सामान्येन फलपर्यवसानत्वाच्छासनस्य, 'सामाख्योऽयं' सामर्थ्य योगाभिधामोऽयं-योमः 'उत्तमः' सर्वप्रधानोऽपेण प्रधानफलकारणत्वादिति ।
टी०...'शास्त्रसन्दर्शितोपायः' यतः शास्त्रं, सामान्य-व्यवहितसाधन-साधारणोपायजन्यफल-कार्यपर्यवसितं, भवंति न त्वसाधारण-विशेषफल-कार्यपर्यवसायीति, शास्त्रसामथ्यंयोगयोर्महदन्तरं भवति, साधारणासाधारणोपायजन्यफलभेदात्, अत: प्रबलशक्तिविशिष्टक्रियाविशिष्टः, सर्वप्रधानोऽव्यवहितत्वेनाचिरेण प्रधानासाधारणफल-मोक्षफल-कारणत्वेनोत्तमो योगः सामर्थ्ययोगः, शास्त्रसामर्थ्य योगयोर्भेदे विषयभेद-वैशिष्ट्यं वर्तते-: ..
सिद्धयाख्यपदसम्प्राप्तिहेतुभेदा न तस्वतः । शास्त्रादेवावगम्यन्ते, सर्वथैवेह- बोगिभिः ॥४॥ सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः ।
तत्सर्वज्ञत्वसंसिद्धस्तदा सिद्धिपदाप्तितः ॥५॥ - पं०...एतत्समर्थनार्यवाह-सिद्धयाख्यपदसम्प्राप्तिहेतुभेदा इति' मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, किमित्याह 'न तत्त्वतो' न परमार्थतः 'शास्त्रादेव' आगमादेवावगम्यन्ते, न चैवमपि शास्त्रयमित्याह-'सर्ववेह योगिभिः' सर्वरेव प्रकारैरिह-लोके साधुभिः, अनन्तभेदत्वात्तेषामिति.
55