________________
कलितविस्तरा-सटीका
प्रतिष्ठाप्राप्ता यतः सूत्रतः समये क्वचिदपि तदश्रवणात्, वक्ष्यति च 'आगमश्चोपपत्तिश्चेत्यादि' 'इच्छादिप्रधानाः' इच्छा च शास्त्रं च सामर्थ्य च प्रधाना, प्रधाने च येषां ते इच्छादिप्रधानाः' क्रियया-क्रियाऽपेक्षया, विकलाश्चाविकलाश्चाधिकाश्च ते, विकलाविकमाधिकाः तत्त्वधर्मव्यापाराः, अथ विस्तरत इच्छादियोगान् वर्णयति-: - 'उक्तं च योगदृष्टिसमुच्चयनामके ग्रन्थे, उक्तं च
कर्तुमिच्छोः श्रुतार्थस्य, ज्ञानिनोऽपि प्रमादतः। -
विकलो धर्मयोगो यः, स इच्छायोग इष्यते ॥१॥ - पं०...'कत्तु मित्यादिश्लोकनवक' अथास्य व्याख्या-कत्तुं मिच्छो:-कस्यचिन्निर्थ्याज मेव तथाविधकर्मक्षयोपशमभावेन, अयमेव विशिष्यते = 'श्रुतार्थस्य' श्रुतागमस्यार्थशब्द आगमवचनः, अयंतेऽनेन तत्त्वमिति कृत्या, अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्याद्, अत आह 'शानिनोऽपि' अवगतानुष्ठेयतत्त्वस्यापीति योऽर्थः, एवंभूतस्यापि सतः किमित्याह'-'प्रमादतः' प्रमादेन-विकथादिना "विकल' असम्पूर्णः, कालादिवैकल्यमाश्रित्य 'धर्मयोगो' धर्मव्यापारो 'य' इति वन्दनादिविषयः, स इच्छायोग उच्यते, इच्छाप्रधानत्वं चास्य तथाकालादावकरणादिति।
- टी०...तथाविध-क्षयोपशमभावमपेक्ष्य कश्चिदधिकारी, द्रव्यादिपौद्गलिकफलाभिसन्धिरहितः, धर्मानुष्ठानचिको विशिष्टः, सिद्धान्तोक्तानेकतत्त्वविषयस्य ज्ञातृत्वेऽपि कर्तव्यधार्मिकाऽनुष्ठानविधीनां ज्ञातृत्वेऽपि यत्कालीनं धर्मानुष्ठानं कार्य, तस्मिन् काले यो न कुर्याद्, यथा प्रतिक्रभणनामक-क्रियां कुर्वाणस्य सूर्यास्तसमये 'बंदितासूत्र' मागन्छेत् परन्तु, अद्यतनकाले तु तदारम्भोऽपि न भवति, चैत्यवंदनं कुर्वाणेन तदर्थाऽनुप्रेक्षा तथा तच्चित्तकाम्य क्रियते परन्तु प्रमादतस्तन्न भवति, तथा च क्षयोपशमवैचित्र्येणाज्ञानी नास्ति, परन्तु ज्ञानवानस्ति तथा धर्मानुष्ठानज्ञाताऽस्ति मावविकथादिप्रमादपारवश्येन यदा क्रिया कार्या तदा क्रियां न करोति, पूजाकाले पूजां न कुर्यात्, पुरोर्वन्दनकाले गुरुं न वन्देत, सुपात्रदानाऽवसरे दानं न दद्यात्, मात्रतत्तक्षियकभावना प्रचम भावयति, अपि कत्तुं न शक्नोति, अथवा कालमुल्लङध्य करोति, विकाले करोति, शास्त्रविहितकाले न करोति, अत एवेच्छायोगः कथ्यते, चतुर्थगुणस्थानकादो भवति. ॥१॥ - . अथ शास्त्रयोगस्वरूपाऽभिधित्सयाऽऽह-:
शास्त्रयोगस्त्विह यो, यथाशक्त्मप्रमादिनः ।
श्राद्धस्य तीवबोधेन, वचसाविकलस्तथा ॥२॥ पं०...'शास्त्रयोगस्त्विति' शास्त्रप्रधानो योगः शास्त्रयोगः, प्रक्रमादेतद्विषयव्यापार एव, स पुनरिहयोगतन्त्रे ज्ञेयः, कस्य कीदृगित्याह'-यथाशक्ति' शक्त्यनुरूपं 'अप्रमादिनो' विकथादिप्रमादरहितस्य, अयमेव विशिष्यते-श्राद्धस्य' तथाविधमोहापगमात् स्व-सम्प्रत्ययात्मिकादिश्रद्धावत: 'तीव्रबोधेन' हेतुभतेन वचसा' आगमेनाविकल:-अखण्डः, तथा-कालादिवकल्याबाघया, न पटवोऽतिचारदोषज्ञा इति कालादिकल्येनाबाधायां तीव्रबोधो हेतुतयोपन्यस्तः ।
54