________________
ललितविस्तरा - सटीका
भावनोत्कर्षो भवतीति ज्ञापनार्थं, अर्थाद् बहुवचनस्य द्वितीयो हेतुः (अत्रानुक्तसमुच्चायक- चकारग्रहणेन 'गौरवाहें' गौरवार्थे बहुवचनमपि . )
अथैतद्विषय कर्मदम्पर्य, अग्रतो वक्ष्यमाणमस्तीति कथयति -:
इत्येतच्चरमालाप के 'नमो जिणाणं जियभयाण' मित्यत्र सप्रतिपक्षं भावार्थमधिकृत्य दर्शयिष्यामः,
टी० ... इति एवं पूर्वोक्तवाक्यार्थ विषयकं भावार्थ ( तात्पर्यार्थ ) अधिकाररूपविषयं लक्षीकृत्य प्रतिपक्ष (आक्षेप - पूर्वपक्ष) सहितं एतस्य शक्रस्तवस्यान्तिमपदे 'नमो जिणाणं जियभयाणमिति' स्थले, तदवसरे दर्शयिष्यामः - प्रकटयिष्याम इति.
अथ 'नमोऽस्त्वर्हद्भ्यः' इति वाक्यार्थ-निर्णये योगाचार्याऽभिप्रायं दर्शयति-:
अन्ये त्वाहुः - ' नमोऽस्त्वर्हद्स्यः' इत्यनेन प्रार्थनावचसा तस्वतो लोकोत्तरयानवतां तत्साधनं प्रथममिच्छायोगमाह, ततः शास्त्रसामर्थ्ययोगभावात्, सामर्थ्ययोगश्चानन्तर्येण महाफलहेतुरिति योगाचार्याः ।
टी०...अन्ये - योगाचार्यास्त्वाहुः 'नमोऽस्त्वर्हद्भ्यः - इत्याकारकेणानेन प्रार्थनावाचकवचनेन तत्त्वतः परमार्थतो, लोकोत्तरयानवत - निर्वाणमार्गव रयानजिनमतवतां' तत्साधनं लोकोत्तर( आध्यात्मिक - जैन) यान मार्गस्य साधनभूतं प्रथम, इन्डायोगमाह, ततः = इच्छायोगतोऽनन्तरं शास्त्रयोगश्च सामर्थ्य योगश्च भवतोऽतः प्रथममिच्छायोगमाह, अव्यवहितत्वेन - अनन्त रत्वेन महाफलंसिद्धिप्राप्ति प्रति साक्षात् हेतुः सामर्थ्ययोगोऽस्ति इति योगाचार्याः ।
[ अत्र पूर्व नमोणं अरहंताणं' इत्यादि पदेनेच्छायोगोनिरूपितः, अग्रतो वक्ष्यमाणेन 'नमो जिणाण' मित्यादिपदेन शास्त्रयोगोऽस्ति 'इक्को वि नमक्कारों' इत्यादिपदेन सरमर्थ्ययोगो वक्ष्यमाणोऽस्ति. ]
अथेच्छायोगादि-स्वरूपलक्षणविभागादि - जिज्ञासा प्रश्नयति-:
अत्र के एते इच्छायोगादयः ?, उच्यते-अभी: खलु न्यायतन्त्रसिद्धा इच्छाविप्रधानाः क्रियया विकलाविकलाधिकास्तत्त्वधर्मव्यापाराः
पं०... "न्यायतन्त्रसिद्धाः' इति न्यायो - युक्तिः स एव तन्त्रम् - आगमस्तेन सिद्धाः - प्रतिष्ठिताः, सूव्रतः समये क्वविदपि तदश्रवणात्, वक्ष्यति च - 'आगमश्वो ग्पत्तिश्चेत्यादिः .
डी०... अथ किस्वरूपाः किंसङख्यका एते, इच्छा योग शास्त्रयोग - सामर्थ्य योगास्त्रयः ? इति प्रश्ने प्रत्युत्तरयति - उच्यते इति निश्चयेन प्रत्यक्षतो दर्श्यमाना 'न्यायतन्त्र सिद्धा: ' युक्तिरूपागमद्वारा
53