________________
ललितविस्तरा-सटीका
अविकला(संपूर्ण) साप्त-सार्वज्ञोपवेशनापासनारूपासर्वमूनाप्रधान प्रतिपत्तिमामिका चतुर्थी पूजा पूजाकारकोपशान्तक्षीणमोहसयोगिकेवलिरूपे वीतरागे सम्भवति. अथ यदि नामवं पूजाक्रमो वीतरागे च तत्सम्भवस्तथापि. नमस्कारविचारे तदुपन्यासोऽयुक्त इत्याहपूजाथं च नम इति, पूजा द्रव्यभावसङ्कोचः' इत्युक्तं, अतः स्थितमेतदनवचं 'नमोऽस्त्वहद्भ्यः ' इति । इह च प्राकृतशल्या चतुर्थ्यर्थे षष्ठी, उक्तं च-"बहुवयणेण दुवयणं, छठिविभत्तीए भण्णइ चउत्थी । जह हत्था तह पाया, नमोऽत्यु देवाहिदेवाणं ॥१॥" ..
पं०...'पूजार्थं चेत्यादि' प्रतिपत्तिरपि द्रव्यभावसङ्कोच एवेति भावः, -
टी....नम इति पदं पूजार्थकं ज्ञेयं, पूजा च द्रव्यभावसंकोचरूपेति पूर्वोक्तमेवेति, अस्मात्कारणात् स्थितेतद्, अनवद्यु-निर्मलं 'नमः, अस्तु अर्हद्भ्यः ' इति वाक्यम् । इह-प्रकृतवाक्ये प्राकृतभाषाशैलीद्वारा चतुर्थ्यर्थकषष्ठी-विभक्तिरस्ति, पाकृतभाषायामुक्तं च 'बहुबचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी, यथा हस्तौ तथा पादौ, नमोऽस्तु देवाधिदेवेभ्यः" 'नमोऽत्थुणं अरहताणं' इति अर्हत्पवघटकषष्ठी (चतुर्थी) विभक्तिगत-बहुवचनप्रयोगः किमर्थकः ? इति शङकानिरासायाह-: बहुवचनं तु अद्वैतव्यवच्छेदनाहबहुत्वल्यापनार्य, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च... ..
. FFFFFFip :: : .... पं०...'अद्वैतव्यवच्छेदेनेति' द्वौ प्रकारावितं द्वीतं तस्य भावो द्वैतं तद्विपर्ययेणाद्वैतम्-एकप्रकारत्वं, तदाहुरेके-"एक एव हि भूतात्मा, देहे देहे प्रतिष्ठितः । एकधा बहुधा चापि, दृश्यते जलचन्द्रवत् ॥१॥" ज्ञानशब्दाद्यद्वैतबहुत्वेऽप्यात्माद्वैतमेवेह व्यवच्छेद्यं, अर्हद्वहुत्वेन तस्यैव व्यवच्छेद्यत्वोपपत्तेः, “फलातिशयज्ञापनार्थ चेति" "फलातिशयो-भावनोत्कर्ष इति ॥
. टी०...अत्राऽन्ययोगव्यवच्छेदकन्यायापेक्षया बहुवचनं तु, .. अत्र जैमिनीयापरनामकस्य मीमांसकस्य द्वौ भेदी स्तः, (१) याज्ञिकादिः कर्मवादी पूर्वमीमांसकः (२) उत्तरमीमांसको वेदान्ती. 'सर्वमेवेदं ब्रह्म' इति वाक्यप्रामाण्येनेतज्जगद् ब्रह्मस्वरूपमस्ति, एक एव भूतात्मा-प्रतिदेहस्थ आत्मा, जलचन्द्रवत्, एकधा बहुधा दृश्यते इति मन्यतेऽथवा 'तत्रेश्वरः सर्वज्ञः परमात्मा, एक एव' इति सिद्धान्तवादिनैयायिकवैशेषिकाणामीश्वरविषयकाद्वैतव्यवच्छेदद्वारा 'अर्हन्त ईश्वरा' अर्थान्नास्येत्कः परन्तु बहवः सन्ति (बहुवचनं सर्वकालिकाहत् प्रतिपत्त्यर्ष, तवातीताः केवलज्ञानिप्रभृतयः, अनागताः पद्मनाभादयः, वर्तमाना ऋषभादयः सीमन्धरादयो त्यत्ययोगव्यवच्छेदकन्यायापेक्षया) इति बहुवचनस्य प्रथमो हेतुः, नमस्कारक्रियाविषयभूतानां-पुष्टालम्बनभूतानामर्हता-भगवता बहुत्वेन नमस्कारकर्तुः, फलातिशयो
528