________________
ललितविस्तरा-सटीका
पं०...'अनेत्यादि' अनादावपि प्रवाहापेक्षया; किं पुनः प्रतिनियतव्यक्त्यपेक्षया, आदिमतीत्यपि-- शब्दार्थः, भवे-संसारे, 'तदा तदा' तत्र तत्र काले 'तत्तत्कण्विादिसम्बन्धयोग्यतया तत्तच्चित्ररूपाः कणिवोज्ञानावरणादिकर्मपरिणामाः पुद्गलाः, आदिशब्दात्तेषामेक बन्धोदयोदीरणादिहेतवो द्रव्यक्षेत्रकालभावा गृह्यन्ते, तेन सम्बन्धः-परस्परानुवृत्तिचेष्टारूपः संयोगस्तस्य योग्यता-तं प्रति प्रह वता तया, विश्वस्य-समग्रस्य एवंविधयोग्यत वात्मनः कर्तृत्वशक्तिरिति, आत्मादिगामिनः--आत्मपरतदुभयगतस्य जन्मा दिप्रपञ्वस्यप्रतीतस्य, इति हृदयमिति-एष सूत्रगर्भः । विपक्षे बाधकमाह-'अन्यथा' कर्तृत्वेऽनधिकृते 'प्रपञ्चासम्भवो' विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्यानुपपत्तिः, कुत इत्याह
टी०...'इह' संसारे वाऽऽत्मनि मुक्तावस्थातः 'आदी' प्रथमावस्थायां, आत्मानः जन्मादिप्रपञ्चकरणस्वभावाः 'आदिकराः' अन्ययोगव्यवच्छेदकापेक्षयेदं विशेषणमतः साङख्यमताऽभिमतास्मनिष्ठाकत्तुं त्व-विषयस्य व्यवच्छेदो भवतीत्यर्थः । अत्र कर्मसंबंधरूपः संसारः, प्रवाहापेक्षयाऽतीत. कालवदनादि:-अतीतकालः कदाऽऽरम्भवान् जातः ? तस्य प्रथमोत्पत्तिरूपाऽऽरम्भो यथा नास्ति अर्थादनादिस्तथाजीवानां कर्मसंवन्धरूपसंसारस्यादिरारम्भो नास्ति, ततः कर्मसम्बन्धात्मकभवोऽनादिः, खनिस्थस्वर्णमत्तिकासम्बन्धवदनादिः, अत्र प्रतिनियत-विशिष्टैक-कर्म विशेषस्याथवैकभवाश्रितैकजीक्व्यक्तिरूप-विशेषस्यापेक्षया, आदिमति-सादी, अर्थादपेक्षयाऽनादौ सादौ च संसारे तत्तत्का. लाऽवच्छेदेन तत्तच्चित्ररूप-विशिष्ट-विविधरूप-प्रकारभेदावच्छिन्नाः, कर्माणवः = ज्ञानावरणादिकर्मरूप-परिणामयोग्याः पुद्गलाः, आदिशब्दात्तेषामेव कर्मपुद्गलानामेव बन्धोदयोदीरणादिदशानां निमित्तभूता द्रव्यक्षेत्रकालभावा गृह्यन्तेऽर्थात् तेन-तसत्कर्माग्वादिना सह सम्बन्धः = परस्परं कर्मस्कन्धः सहात्मनो वेष्टनरूपा, आत्मना सह कर्मस्कन्धानां ग्रथनरूपा चेष्टा (क्रिया) तद्रूपः संयोगस्तस्य योग्यता-तथारूपसंयोगसम्बन्धं प्रति नम्रता-पराधीनता, तया, विश्वस्य-समग्रस्य, एवविध योग्यतैवात्मनः कर्तृत्वशक्तिरिति. अर्थादात्मगतस्य परपुद्गलगतस्यात्मपररूपोभयगतस्य समग्रस्य प्रतीतस्य जन्मादिप्रपञ्चस्य. पूर्वोक्तवंविध-योग्यतैवात्मनः कर्तृत्वशक्तिरिति, तादृश-शक्तिद्वाराऽऽत्मा, जन्मादिप्रपञ्चस्य कर्ताऽऽत्मेति, सारांशस्तु, आत्मपुद्गलरूपे द्रव्यद्वये बहवीभिरनंतयोग्यताभिः सह परस्परमेकीभवनस्य योग्यताऽप्यस्ति, यद्योग्यतापरिणामेनैतवैविध्यपूर्णजीवजडयोः सृष्टि दृश्यमानाऽस्ति, आत्मपुद्गलयो द्रव्ययोः स्वाभाविकी शक्तिरेवेतादृशी विद्यते, यदमुकसंयोगा भवेयुस्तदोभयो मिश्रणं भवितुं शक्यते, तथाऽऽत्मनः प्रकाशोऽप्येतादृशो भवति, यत्कार्मणस्कन्धैः परित आवियते-परिभूयतेऽभिभूयते वा रुध्यतेऽत एव आत्मशक्तिप्रकाशावारकं कर्मपुद्गलरूपमावरणमस्ति, नान्यत्, तथाहि-निर्मल आत्मनि निर्मलात्मन, आवरणं न भवति-आत्माऽत्मना नावियते, धर्माऽधर्माऽऽकाशकाला अरूपिणः सन्ति, तैरात्मा चावरीतु न शक्यतेऽर्थादात्मन एतां दृश्यमानां शरीरादिकां रूपिणीं सृष्टिमुत्पादयितु तेऽरूपिणो नो शक्नुवन्ति, अतो यथा जले क्षिप्ता शर्करा सती जलस्य प्रत्येकाणुषु व्याप्ता भवति,
66