________________
ललितविस्तरा - सटीका
स्वस्यानुषंगिकं
फलं - धान्यप्राप्तिरूपं फलं कृषिरूपप्रवृत्ते मुख्यं फलं भवति तद्वदत्रापि प्रकृते मुक्तिप्राप्तिविधेयकमोक्षमार्गक्रिया - प्रयोजकीभूता 'अनया क्रियया मुक्तिप्राप्तिरेव भवतु' इत्याकारिका या, उत्कटेच्छा तस्या विषयीभूतं फलं मुक्तिप्राप्तिरूपं फलं मोक्षमार्गक्रियाया मुख्यं फलं बोध्यम् । rss कमित्यानुषंगिकम् ' = स्वविधेयप्रवृत्ति--प्रयोजकानुत्कटेच्छा विषयीभूतं फलम् । फलस्य गौणत्वं च मुख्यफलेच्छाधीनेच्छा विषयत्वम् । उद्देश्याऽन्तरप्रवृत्तस्य तत्कर्म नान्तरीकयता - प्राप्तः प्रासंगिकोऽनुद्देश्यः कार्यविशेष आनुषंगिकम् । यथा भो बटो ! भिक्षामट यदि गां पश्येस्तां चानयेत्यादौ । अत्र भिक्षार्थं प्रवृत्तस्य दैवाद् गोदर्शनात्तस्या आनयनं, आनुषंगिकम् । तत्रोद्देश्यत्वाभावादिति बोध्यम्. ( वाच. )
आनुषंगिकं = धान्यप्राप्ति - विधेयक - कृषिरूपप्रवृत्तिः प्रयोजकामुत्कटेच्छाविषयभूतं पलालादि, कथ्यते, धान्यप्राप्तिरूपं फलं कृषिरूपप्रवृत्तेमुख्यं फलं तथाऽत्र मोक्षमार्ग - क्रियाया मुख्यं फलं मोक्षफलं, भोगाद्यैश्वर्यमैहिकपारलौकिक-सांसारिक सुखरूपं पलालपुष्पवदानुषंगिकं कथ्यते तत्त्रोद्देश्याभावात्, अर्थान्मोक्षमार्गक्रियाया मुख्यं फलं शैलेश्यऽवस्थैव प्रधानफलमुपादेयं तया शैलेश्यवस्थया फलान्तराभावेन मोक्षभावात् पुष्प - पलालादिवदानुषंगिक - अनुद्देश्यरूपं सांसारिक भोगैश्वर्यादि, सर्वं त्याa (आनुषकं फलं फलं न, प्रधानं फलं फलमेवेति )
आह-यद्येवं न सामान्येनैवं पाठो युक्तो, भावनमस्कारवतस्तद्भावेन तत्साधनायोगात्, एवमपि पाठे मृबाबाद:, 'असदभिधानं मृषेति' वचनात् असदभिधानं च भावतः सिद्धे तत्प्रार्थनावचः, तद्भावेन तद्द्भवनायोगादिति,
पं०...' तत्साधनायोगादिति' तस्य - सिद्धस्य नमस्कारस्य यत् साधनं निर्वर्तनं प्रार्थनया तस्यायोगाद्-अघटनात् ।
'असदभिधानमिति' असतोऽयुज्यमानस्याभिधानं भणनमिति, 'तद्भावेनेत्यादि' तद्भावेन भावनमस्कारभावेन तद्भवन।योगाद्-आशंसनीयभावनमस्कारभवनायोगाद् अनागतस्येष्टार्थस्य लाभेनाविष्करणमाशीः, सा च..
प्रार्थनेति,
टी०...भावनमस्काररूपफलस्य बीजवपनरूपप्रार्थनार्थक 'अस्तु' इति पदमस्तीति यदा व्यवस्था, तदा वादी वदति आहेत.
एवं व्यवस्था तदा सामान्येन - भावनमस्कारसहितत्व-भावनमस्काररहितत्वरूपसाधारण्येन 'अस्तु' इति पदस्य पाठ: - पठनं (उच्चारणं) न युक्तः, अर्थाद् भावनमस्कारसहितेन च भावनमस्कार रहितेन for चक् न युक्तो यतो भावनमस्कारवति तु भावनमस्काररूपसाध्यस्य विद्यमानत्वेन - सिद्धस्यासाधनं (सिद्धस्य साध्यस्यासाधनं, असिद्धसाध्यस्य साधनमिति नियमः ) यदि यः सिद्धभावनमस्कारवान् प्रार्थनार्थकं 'अस्तु' पदं पठेत्तदा तस्य मृषावादो दोषो लगति यतः, 'असदभिधानं'
49.