SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका पति-: . शंसारूपप्रार्थनारूपबीजवपनद्वारा भावनमस्कारसाध्यसिद्धिर्भवतीति ज्ञापनार्थ प्रार्थनोपन्यासः कृतः, एवं च भावनमस्काररूपतत्त्वधर्मलाभकार्य प्रति 'नमोऽस्त्वहद्भ्यः' इत्याकारकासारूपप्रार्थना, बीजवपनरूपकारणमस्त्येवं कार्यकारणभावो ज्ञेयः । अत्र 'नमोऽस्त्वहंद्भ्यः' इति पदेन भावनमस्कारस्य प्रार्थनाद्वारा भावनमस्कार-लाभकामना दर्शिता, 'भावनमस्कारमहं करोमीति मिथ्याऽभिमानिता न कृता, तथा च तत्त्वधर्मरूप-महादुर्लभभावनमस्कार-विषयाऽभिलाष एव भावधर्मबीजवपनमस्तीति सूचितम् । उक्तं च यथा विधिनीप्ताद् बीजात् क्रमादक,रादेरुदयस्तथा धर्मबीजादपि फल-सिद्धिः, इति बुधा विदुः॥१॥ "अत्यन्तं यथास्यात्तथोपादेयमिति बुढ्या गृहीतं, माहारादि-संशा-निरोधान्वितं फलकामनारहितं धर्मबीजं प्रशंसादि सत् संशुद्धमुच्यते ।" अथ क्रमपूर्वकमङकुरादिस्थानं निरूपयति-:. चिन्तासत्-श्रुत्यनुष्ठानं, देवमानुषसम्पदः । क्रमेणाङ्क र-सत्-काण्डमालपुष्पसमा मताः ॥३॥ फलं प्रधानमेवाहानुपाङिगकमित्यपि । पलालादिपरित्यागात्-कृषौ धान्याप्तिवद् बुधाः ॥४॥ अत एव च मन्यन्ते, तस्वभावित-बुद्धयः । मोक्षमार्ग-क्रियामेका, पर्यन्तफलदायिनीन् ॥५॥ इत्यादि पं०...'फलमित्यादिश्मोकः' फलं-साध्यं, किं तदित्याह-प्रधानमेव' ज्येष्ठमेव, फलमिति पुनः सम्बध्यते, तत: प्रधानमेव फलं फलमाहुः, अवधारणफलमाह-'नानुषङिगकमित्यपि' नोपसर्जनभवमपीति, दृष्टान्तमाह-'पलालादि-परित्यागात्' पलालपुष्प परित्यज्य, 'कृषी' कणे, धान्याप्तिमिव 'बुधाः' सुधियः, 'अत एवेत्यादि' 'अत एव' फलं प्रधानमेवेत्यादेरेव हेतोः, चकारोऽर्थप्राप्तमिदमुच्यत इति सूचनार्थः, 'मन्यन्ते' प्रतिपद्यन्ते 'तत्त्वभावितबुद्धयः' परमार्थशिधियो 'मोक्षमार्गक्रियां' सम्यग्दर्शनाखवस्थां 'एका' अद्वितीयादिरूपा, मोक्षमार्गत्वेन' 'पर्यन्तफलदायिनीमित्यादि' मोक्षरूपचरमकार्यकारिणी, शैलेश्यवस्थामित्यर्थः, अन्यावस्थाभ्यो हनन्तरमेव फलान्तरभावेन मोक्षाभावात् । टी०...एवं धर्मबीजस्य विधिना वपनेन, क्रमेण धर्मविषयकाभिलाषरूपचिन्ता, अङकुरस्थानीया, धर्मसत् श्रवणं सत्काण्डस्थानीयं, धर्मानुष्ठानं नालस्थानीयं, देवमानुषसम्पदः पुष्पस्थानीया मताः ॥३॥ फल मित्यादिश्लोकः' फलं साध्यं किं तदित्याह-'प्रधानमेव' ज्येष्ठमेव, फसमिति पुनः सम्बध्यते, ततः प्रधानमेव फलं फलमाहुः, (फलं = यमर्थमधिकृत्य प्रवर्तते तत्फलं, यहुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनं-फलम्, साध्यतयेच्छाविषयः फलम्, उद्देश्यं फलम्) प्रधानं फलं = स्वविधेयकप्रवृत्ति-प्रयोजकीभूतोत्कटेच्छाविषयीभूतं स्वस्य मुख्यं फलम् । धान्यप्राप्तिविधेयककृषिरूपप्रवृत्तिप्रयोजकीभूता, अनया प्रवृत्त्या धान्यप्राप्तिरेव भवतु इत्याकारिका मा उत्कल छा तस्या बियीभूतं 48
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy