________________
ललितविस्तरा-सटीका
अवैनं विषयमुपसंहरन्नाहअतः साकल्यत एतेषां व्याल्यासिद्धिः, तस्याः सम्यग्ज्ञानहेतुत्वादिति सूक्ष्मधियाऽऽलोचनीयमेतत् ।
___टी०...अतः-अस्मात्कारणादेतेषां-जिज्ञासादीनां सप्ताङगानां साकल्यतः सामस्त्यतः अर्थात् समस्त-जिज्ञासा-गुरुयोग-विधिपरता-बोधपरिणति-स्थर्य-उक्तक्रिया-अल्पभवतारूपाणां सप्तानां सामस्त्येन व्याख्यासिद्धिः (दण्डचक्रादिन्यायेन जिज्ञासादि-सप्ताङगानां मिलितानांसमुदितानामेव व्याख्यानं प्रति कारणता, न तु तृणाऽरणिमणिन्यायेन प्रत्येक कारणतेति बोध्यम् ) यतः सकलाङगी व्याख्यासिद्धिः, सा व्याख्यासिद्धिः सम्यग्ज्ञानस्य हेतुरस्ति इति सूक्ष्मबुद्धिद्वाराऽलोचनीयमेतदिति। अथाऽस्तु पदस्यार्थरूपां प्रार्थनां प्रौढतया परामृशति-: तत्र 'नमोऽस्त्वहद्भ्यः इत्यत्रास्तु-भवत्वित्यादौ प्रार्थनोपन्यासेन दुरापो भावनमस्कार, तत्त्वधर्मत्वाद्, अत इत्थं बीजाधानसाध्य इति ज्ञापनार्थ, उक्तं च-... "विधिनोप्ताद्यथा बीजाद रायुदयः क्रमात् । फलसिद्धिस्तथा धर्मबीजादपि विदुर्बुधाः ॥१॥ वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् । तच्चिन्ताधङ्क रादि स्यात्फलसिद्धिस्तु निर्वृतिः ॥२॥" .
पं०...'वपन' मित्यादिश्लोकः, वपनं-निक्षेपणं, धम्मस्य-श्रुतचारित्ररूपस्य, बीजं फलनिष्पत्तिहेत. धम्मबीजं तस्यात्मक्षेत्र इति गम्यं, कि तदित्याह-'सत्प्रशंसादि' सत् संशुद्ध, तच्चेत्थंलक्षणं-"उपादेयधियाऽत्यतं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्ध ह्येतदीदृशम् ॥१॥" प्रशंसादि-वर्णवादकुशलचित्तोचितकृत्यकरणलक्षणं, तद्गतं, 'तच्चिन्तादि' तस्य धर्मस्य चिन्ता-अभिलाषः, आदिशब्दात् सच्छु त्यादि, वक्ष्यमाणम्, अकूर दि -अङ्क, रसरकाण्डादि, वक्ष्यमाणमेव 'फलसिद्धिस्तु निवं तिरिति' प्रतीतार्थमेव.
टी०....तत्र नमोत्थुणसूत्रघटक 'नमोऽस्त्वहद्भ्यः ' इति वाक्यघटक 'अस्तु इति विवरणात् भवत्वित्यादिपदव्याख्यानावसरेऽस्तुपदार्थः प्रार्थनारूपः कृतः, तत्प्रार्थनोपन्यासेन-'नमोऽस्त्वर्हद्भ्यः' इत्याकारकभावनमस्कारलाभरूप-फलबदाशंसारूपप्रार्थनोपन्यासेन-वाक्यप्रयोगेण हेतुना, दुरापःदुर्लभो भावनमस्कारो ("अत्युत्ति पत्थणा दुल्लहो उ उक्कोस भावनमुक्कारो। लब्भइ बीयाहाणाइयं आसंसाइ तं नुभवे"॥१॥) यतस्तत्त्वधर्मोऽस्ति । तथा च भावनमस्कारस्य दुर्लभत्वेन भावनमस्कारविषयकप्रार्थनाऽस्ति, यदि स भावनमस्कारोऽप्राप्यश्चेत्तदा भावनमस्कारविषयकप्रार्थना निष्फला भवेदत.एव भावनमस्कारो दुर्लभोऽस्त्यतो भावनमस्कारविषयकप्रार्थना सफलाऽस्ति. पूर्वकथिता.
:47