________________
ललितविस्तरा-सटीका
अयुक्तकथनं मृषा, इति वचनमस्ति, च भावतः सिद्धे-भावनमस्कारे सिद्धे सति तत्प्रार्थनावच:भावनमस्कारविषयकप्रार्थनावचो मृषा, यतो भावनमस्कारभावेन प्रार्थनीयेष्टभावनमस्कारप्राप्तिफलभवनस्याभावो वर्त्तते, भविष्यत्कालीनेष्टार्थस्य लाभहेतुनाऽविष्करणमाशी:, सा च प्रार्थनेति, अर्थादिष्टपदार्थप्राप्तिमति, प्राप्तेष्टपदार्थविषयकप्रार्थनावाचकं 'अस्तु' इति पाठोऽसन् वा मृषावादरूपः कथं न ? उच्यते, यत्किञ्चिदेतत्, तत्तत्त्वापरिज्ञानाद, भावनमस्कारस्यापि उत्कर्षादिभेदोऽस्त्येवेति तत्त्वं, एवं च भावनमस्कारवतोऽपि तथा तथोत्कर्षाविभावेनास्य तत्साधनायोगोऽसिद्धः, तदुत्कर्षस्य साध्यत्वेन तत्साधनत्वोपपत्तेरिति,
पं०...'भावनमस्कारस्यापीति' किं पुनर्नामादिनमस्कारस्येत्यपिशब्दार्थः, 'तत्साधनत्वेनोपपत्तेरिति' तस्योत्कर्षानन्यरूपस्य नमस्कारस्य प्रार्थनया साधनभावस्य घटनात् ।
टो०...इति चेदच्यते-पूर्वोक्तं वादिकथनं यत्किञ्चिद्रूपमस्ति, यतस्तस्य भावनमस्कारस्य तत्त्वं-मर्म-रहस्यं ज्ञातं न वर्त्तते, यत उत्कर्षादिभेदोऽस्त्येवेति तत्त्वम् = उत्कर्ष:-उत्कृष्टनमस्कारः, अपकर्ष:-अपकृष्ट-जघन्योऽर्थाद्ज्जघन्य-मध्यम-उत्कृष्टादिरूपभेद-प्रकारवान् भावनमस्कारोऽस्तीति तत्त्वं-रहस्यमस्ति, अर्थाद्, यत्प्रकारावच्छिन्न-भावनमस्कारवानस्ति ततोऽप्युत्कृष्टप्रकारावच्छिन्न-भावनमस्कारलाभोऽस्तु, इति प्रार्थनाऽस्ति, ततस्तादृशभ.वनमस्कारवतामपि तादृश-प्रार्थना-वचः संगतमस्ति, अर्थाद् भावनमस्कारवतोऽपि तथा तथा-तत्तत्प्रकाररूपोत्कर्षादिभावेन सिद्धभावनमस्कारवतस्तत्साधनस्यायोगोऽसिद्धः = तत्साधनयोगः सिद्ध एव, तदुत्कर्षस्य-ततउत्कृष्टभावनमस्कारस्य साध्यत्वेन, तस्योत्कर्षानन्यरूपस्य नमस्कारस्य प्रार्थनया साधनभाव उपपन्नो भवति, एवं च हीनभावनमस्कारवान्, उत्कृष्टभावनमस्कारकामनया 'अस्तु' इत्यादि-पदेन प्रार्थयत इति सर्व समञ्जसम् । एवं चैवमपि पाठे मृषावादः, इत्याद्यपार्थकमेव, असिद्ध तत्प्रार्थनावच इति न्यायोपपत्तेः,
_____टी०...एवं भावनमस्कारस्योत्कर्षादिभेद-सिद्धौ ‘अस्तु' इत्यादि-पाठे मृषावाद इत्यादि पूर्वोक्तं तन्निरर्थकमेव यतोऽसिद्धे-अप्राप्ते तत्प्रार्थनावच इति न्यायस्योपपत्तिर्भवतीति, इदमन हृदयं = सर्वोत्कृष्ट-परमोत्कृष्ट भावनमस्कारस्यासिद्धी-अप्राप्तो जघन्यमध्यमादि-हीनसिद्धभावनमस्कारवद्भिः, सर्व वीतरागरहितः परमोत्कृष्टभावनमस्कारकामनया 'नमोऽस्तु' इत्यादिवच:-पाठोऽवश्यं पठनीय इति न्यायसंगतिः, अथ भावनमस्कारोत्कर्षवन्तं वर्णयति,
50