________________
२२
तत्त्वन्यायविभाकरे
समस्तार्थविषयकत्वमसिद्धमिति वाच्यम्, आवारणापाये तत्प्रकाशकत्वात् । न चान्योऽन्याश्रयः, सिद्धे सकलविषयकत्वेऽस्मदादिज्ञानस्य तदावरणापाये तत्प्रकाशकत्वं सिद्ध्यति, तत्सिद्धौ च विज्ञानस्य सकलविषयकत्वसिद्धिरिति वाच्यम्, विशेषविषयकानुमानमिच्छता भवता निःशेषविषयकव्याप्तिज्ञानस्याभ्युपगतत्वात् । एवं यज्ज्ञानं स्वविषयेऽस्पष्टं तत्सावरणं यथा नीहारधूलिव्यवहितवृक्षादिज्ञानम्, अस्पष्टञ्च स्वविषये सर्वं सदनेकान्तात्मकमित्यादिज्ञानमिति । तथा मिथ्यात्वपटलविलुप्तविवेकदृशां यदेतत्सर्वस्मिन्ननेकान्तात्मकवस्तुनि विपर्ययज्ञानं तत्सावरणं मिथ्याज्ञानत्वाद्धत्तूरकाधुपयोगिनो मृत्तिकाशकले कनकज्ञानमिवेति ततस्सिद्धमावरणं कर्म । तच्च कार्यकारणप्रवाहेण प्रवर्त्तमानमनाद्यपि सम्यग्दर्शनादिरत्नत्रयलक्षणेनावरणनिर्जराहेतुभूतसामग्रीविशेषेण निर्मूलं प्रलीयते, कार्यकारणरूपेणानादितः प्रवर्त्तमानस्य बीजाङ्करसन्तानस्य निर्दग्धबीजेऽङ्करे वा प्रलयवत् । तस्मात्सिद्धमशेषावरणविलयात्समस्तवस्तुविषयं केवलज्ञानमिति । केवलज्ञानमिदं साद्यपर्यवसितं, घातिकर्मक्षयादाविर्भूतत्वात्सादि, तथोत्पन्नस्य तस्य पश्चान्नावरणमस्त्यतोऽनन्तम्, सत्तामाश्रित्येर्दमनन्तत्वं बोध्यम् । तेन भवस्थकेवलिविशेषपर्यायाणां वज्रर्षभनाराचसंहननादीनामपगमे तदव्यतिरिक्तस्य केवलज्ञानस्यात्मद्रव्यद्वारेण विगमेऽपि न क्षतिरन्यथाऽवस्थातुरवस्थानामात्यन्तिकभेदप्रसक्तेः, सिद्धत्वरूपेण पुनरुत्पद्यते, उत्पादव्ययध्रौव्यात्मकत्वाद्वस्तुनोऽन्यथा वस्तुहानिः प्रसज्येतेति ॥
બીજું કોઈ આવરણ પ્રસિદ્ધ નથી, એ શંકામાં કહે છે કેभावार्थ - “वणी न पानि यथी थाय छे." વિવેચન – પૂર્વે વિવેચન કરેલ ઘાતિ-અઘાતિરૂપે બે પ્રકારના કર્મમાં ઘાતિકર્મરૂપ આવરણ છે. તેના ક્ષયથી કેવલજ્ઞાન ઉદયમાં આવે છે. તથાપ્તિ જે પોતાના વિષયમાં પ્રવૃત્તિવાળું નથી, તે આવરણપ્રતિબંધવાળું છે. જેમ કે-એક જાતના આંખના રૂપ-તિમિર નામના રોગવાળા તૈમિરકનું એક ચંદ્રમાં ચાક્ષુષ (या संबंधी) विशान.
૦ સમસ્ત દ્રવ્ય, પર્યાયરૂપ સ્વવિષયમાં અમ્મદ્ આદિનું જ્ઞાન પ્રવૃત્તિવાળું નથી, તેથી ત્યાં આવરણ અપેક્ષિત છે. તે આવરણ, બીજું અસંભવિત હોવાથી ઘાતકર્મરૂપ જ છે.
१. कथञ्चित्तस्यात्माव्यतिरिक्तत्वादात्मनश्च द्रव्यरूपतया नित्यत्वात्तद्रूपेण केवलज्ञानमपि अनन्तमिति भावः ॥न च केवलज्ञानस्य साद्यपर्यवसितत्वात् जीवस्यानादिनिधनत्वात् छायातपवदत्यन्तभेदेन कथं जीवः केवलं, तथा ज्ञानदर्शनयोः क्षायिकत्वात् क्षायोपशमिकत्वात् जीवस्य पारिणामिकत्वाच्चेति वाच्यम्, द्रव्यपर्यायभेदाभेदैकान्तपक्षप्रतिषेधेन कथञ्चिद्भेदाभेदात्सर्वस्याप्युपपत्तेः, दरिद्रोऽयमिदानी राजा जात इत्यादिप्रतीत्या राजत्वपर्यायस्य, राजत्वपर्यायात्मकत्वेन वा पुरुषस्य जातत्वावगाहनात् पर्यायाणामभेदाध्यवसितभेदात्मत्वात् द्रव्यस्य वा भेदानुषक्ताभेदात्मकत्वादिति ॥