________________
द्वितीयो भाग / सूत्र - २१, द्वितीयः किरणे
६२३
विक्रिया नारकाणां भवन्ति, शुभम् करिष्याम इत्यशुभतरमेव विकुर्वत दुःखाभिहतमानसाश्च दुःखप्रतीकारं चिकीर्षवो गरीयस एव ते दुःखहेतून् विकुर्वते इति भावः । किमेषां शीतोष्णजनितमेव दुःखमुतान्यथापीत्यत्राहान्योऽन्योदीरितदुःखा इति, भवप्रत्ययविभङ्गज्ञानानुगतत्वान्मिथ्यादृष्टयो दूरादेव दुःखहेतूनवगत्योत्पन्नदुःखाः प्रत्यासतौ परस्परालोकनाच्च समुज्ज्वलितक्रोधकृशानवोऽभिघातादिभिरुदीरितदुःखा भवन्ति, सम्यग्दृष्टयस्तु संज्ञित्वादेवातीतजन्मन्यनाचारकारिणमात्मानं जानन्तः क्षेत्रस्वभावजानि दुःखानि सहमानाः परैरुदीरितवेदनास्स्वायु:क्षयमुदीक्षन्तेऽतिदुःखिताः न पुनर्वेदनास्समुदीरयन्त्यन्यनारकाणाम्, एषामवधिज्ञानं न विभङ्गज्ञानमिति भावः । नारका इति, नरको विद्यते एषान्ते नारका नरकेषु भवा इति वा, ननु चन्द्रसूर्यादयो देवाः प्रत्यक्षसिद्धा एव, ये चाप्रत्यक्षा अन्ये देवा मंत्रविद्योपयाचितकादिफलसिद्ध्याऽनुमानतो गम्यन्ते ये पुनर्नारकास्ते साक्षादनुमानतो वाऽनुपलभ्यमानत्वेन तिर्यङ्नरामरेभ्यो न सर्वथा भिन्नजातीयास्सन्ति खरविषाणवदिति चेन्मैवम्, सर्वज्ञप्रत्यक्षविषयत्वेन सर्वथाऽनुपलभ्यमानत्वस्यासिद्धत्वात् । अस्मत्प्रत्यक्षाविषयत्वान्न तस्सिद्धिरिति तु एकस्याप्रत्यक्षस्यापि अपरप्रत्यक्षविषयत्वे बाधकाभावेन व्युदसनीयम्, इन्द्रियप्रत्यक्षस्योपचारमात्रेणैव प्रत्यक्षत्वाच्च, सन्ति केचित्प्रकृष्टपापफलभोक्तारस्तस्य कर्मफलत्वात् जघन्यमध्यमफलभोगितिर्यङ्नरवत्, ये च प्रकृष्ट-पापफलभोगिनस्ते नारका इत्यनुमानादपि तत्सिद्धेः, न चात्यर्थं ये दुःखितास्तिर्यङ्मनुष्यास्त एव प्रकृष्टपापफलभोगित्वान्नारकव्यपदेशभाजो नादृष्टनारकाः केचिदिति वाच्यम्, नरतिरश्चामुत्कृष्टपापफलभोक्तृत्वाभावात्, येषामृत्कृष्टपापफलभोगस्तैश्च संभवद्भिस्सर्वैरपि दुःखप्रकारैर्युतैर्भवितव्यं, न चैवमतिदुःखितानामपि तिर्यगादीनां दृश्यते, आलोकतरुच्छायाशीतपवनसरित्सर:कूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात्, छेदनभेदनपाचनदहनदम्भनवज्रकण्टकशिलास्फालनादिभिश्च नरकप्रसिद्धैः प्रकारैर्दु:खस्यादर्शनादिति ॥
કથિત સ્વરૂપવાળા આલોકમાં રત્નપ્રભા વગેરે પૃથિવીઓમાં દરેકમાં ઉંચે અને નીચે એક એક હજાર જોજન છોડીને મધ્યમાં નરકો હોય છે. મહાતમા પ્રભામાં તો મધ્યમાં ત્રણ હજાર જોજનમાં જ નરકો હોય છે. તેઓમાં ક્યાં, કેટલા આયુષ્યવાળા અને કેવા નારકીઓ રહે છે? આવી આશંકામાં કહે છે કે
शब्दान् परमाधार्मिकजनितान् श्रृण्वन्ति हत, छिन्द, भिन्तेत्येवं रूपान् । श्रुत्वा ते भयोद्धान्तलोचना नष्टान्तःकरणा नष्टसंज्ञाश्च कां दिशं व्रजामः कुत्र वैतहुःखस्य त्राणं स्यादिति कांक्षन्ति, खदिराङ्गारसंनिभां ज्वालां ज्योतिर्मयी भूमिमाक्रमन्तो दह्यमानाः करुणमाक्रन्दन्तीत्यादिरूपेण वेदना विज्ञेयाः ॥