________________
६२२
तत्त्वन्यायविभाकरे द्वाविंशतिसागरोपमायुष्कास्सप्तम्यां त्रयस्त्रिंशत्सागरोपमायुष्का नारका निवसन्तीति भावः । किमेतन्यूनायुष्का न निवसन्तीत्यत्राहोत्कर्षत इति, नन्वेवं कुत्र कियन्न्यूनायुष्का वासयोग्या इत्यत्राह जघन्यत इति, प्रथमायां दशवर्षसहस्राणि द्वितीयायामेकसागरोपमं तृतीयायां त्रीणि सागरोपमाणि तुर्यायां सप्तसागरोपमाणि पञ्चम्यां दशसागरोपमाणि षष्ठयां सप्तदशसागरोपमाणि सप्तम्यां द्वाविंशतिसागरोपमाणि तेषां जघन्या स्थितिरिति भावः । नारकाणां लेश्यादिदुःखानाहानवरतेति, अनवरतं या अशुभतरा लेश्यापरिणामशरीरवेदनाविक्रियास्तास्सन्त्येषामिति तादृशाः, अर्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । नरकगतिनरकपञ्चेन्द्रियजात्योर्नियमादशुभतरलेश्यादिभिस्सम्बन्धः, निमेषमात्रमपि कदाचिन्न शुभलेश्यादीनां सम्भव इति सूचयितुमनवरतेति लेश्यादीनां विशेषणम् । कापोतनीलकृष्णास्तिस्त्र एव तीव्रतातारतम्येन नारकाणां भवन्ति तथापि लेश्येति, सामान्यत उक्ति रकाणां सम्यक्त्वप्रतिपत्तेष्षडपि लेश्याः सम्भवन्तीति च सूचयितुम् । तत्र प्रथमायां कापोता तीव्रा, द्वितीयायां सैव तीव्रतरा, तृतीयायां कापोता तीव्रतमा तीव्रा च नीला, तुर्यायां नीला तीव्रतरा, पञ्चम्यां तीव्रतमा नीला तीव्रा कृष्णा च, षष्ठ्यां तीव्रतरा कृष्णा, सप्तम्यां तीव्रतमा कृष्णैवेति । अशुभतराः पुद्गलपरिणामाः स्पर्शरसगन्धवर्णशब्दसंस्थानभेदगतिबन्धागुरुलघुनामानो दश तैर्यथायोगं सन्तप्ता वेदितव्याः । अशुभतरदेहा अशुभनामकर्मोदयात्सर्वाण्यङ्गोपाङ्गादीनि तद्देहेष्वशुभानि नियमेन हुण्डशरीराणि बीभत्सानि, तेषां हि द्विविधानि शरीराणि, भवधारकाणि उत्तरवैक्रियाणि च, जघन्येनाङ्गुलासंख्येयभागप्रमाणं भवधारकं सर्वासु, उत्कर्षेण सप्त घनूंषि त्रयो हस्ताः षट् चाङ्गुलानि प्रथमायामुत्सेधाङ्गुलमधिकृत्येदम्, अधोऽधोऽन्यासु च द्विगुणवृद्ध्या विज्ञेयम् । उत्तरवैक्रियन्तु प्रथमायां जघन्येनाङ्गुलसंख्येयभागतप्रमितमन्यासु च, उत्कर्षेण पञ्चदश धनूंष्यर्धतृतीयाश्च रत्नयः प्रथमायामेतदेव द्विगुणं द्वितीयस्यामेवं तावज्ज्ञेयं यावत्सप्तम्यां धनुस्सहस्रमिति । अशुभतराश्च वेदनाः, नरकेषु अधोऽधश्शीतोष्णादिप्रयुक्ता विचित्रा वेदितव्याः, अशुभतरा येऽसंख्येयविस्तृतास्ते असंख्येयानि योजनसहस्राणि आयामविष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण, एवं षष्ठपृथिवीं यावत् । सप्तमपृथिव्यां द्विविधाः संख्येयविस्तृत एकः, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसातव्यः । असंख्येयविस्तृताश्चत्वारः, ये असंख्येयविस्तृतास्तेऽसंख्येयानि योजनशतसहस्राणि आयामविष्कम्भेण, असंख्येयानि योजनसहस्त्राणि परिक्षेपेण । अप्रतिष्ठानाभिधानश्च एकं योजनशतसहस्त्रमायामविष्कम्भेण, त्रीणि योजनशतसहस्राणि षोडशसहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः कोशा अष्टाविंशं धनुश्शतं त्रयोदशांगुलानि अर्धाङ्गलञ्च किंचिद्विशेषाधिकं परिक्षेपेणेति ॥
१. शीतोष्णबुभुक्षापिपासाखर्जूपारतंत्र्यभयशोकजराव्याधिरूपा दशविधा वेदनाः । तिर्यङ्मनुष्यभवान्नरकेषूत्पन्नास्सत्त्वा अन्तर्मुहूर्तेन निलूंनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान्