________________
द्वितीयो भाग / सूत्र - ८, प्रथम किरणे ક્રિયાકાળ અને નિષ્ઠાકાળમાં [આ પ્રમાણે આવરણક્ષયના વર્તમાનકાળમાં જો ક્રિયાનો અભાવ માનવામાં આવે, તો આવરણનો ક્ષય જ ન થાય, કેમ કે- ક્રિયા સિવાય ત્યાં બીજા હેતુનો અભાવ છે. આવરણક્ષયના વર્તમાનકાળમાં તેના આવરણક્ષયના હેતુભૂત ક્રિયાની સત્તાના સ્વીકારમાં ક્રિયાકાળ અને નિષ્ઠાકાળની એકતા સિદ્ધ છે, એમ પણ વિચારવું.] એકપણું છે. વળી પ્રતિબંધકના અભાવથી જ આવરણના ક્ષયના વર્તમાન સમયમાં નિષ્ઠાવિરુદ્ધ નથી.
अथ केवलज्ञानस्य लक्षणमाचष्टे - अशेषद्रव्यपर्यायविषयकसाक्षात्कारः केवलम् ॥ ८ ॥
अशेषेति । अशेषाणि यानि द्रव्याणि पर्यायाश्च तद्विषयकः साक्षात्कार इत्यर्थः, मुख्यतया निखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयकज्ञानमिति भावः, तत्त्वं केवलज्ञानस्य लक्षणम्, केवलदर्शनेऽतिव्याप्तिवारणाय सत्यन्तम् । पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञानेऽतिव्याप्तिवारणाय विशेष्यम् । प्रमेयवदिति ज्ञानस्य प्रमेयत्वेन निखिलधर्मप्रकारकज्ञानस्य वारणाय सामान्यधर्मानवच्छिन्नत्वं निखिलधर्मे विशेषणीयम् । तत्र प्रमाणञ्च ज्ञानत्वमत्यन्तोत्कर्षवद्वत्ति, अत्यन्तापकर्षवद्वत्तित्वात्परिमाणत्ववदित्यनुमानम् । न चेदमप्रयोजकं, ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेरत्यन्तापकर्षोत्कर्षाभ्यां विनाऽसम्भवात् । न चेन्द्रियाश्रयज्ञानस्यैव तारतम्यदर्शनेन तत्रैवात्यन्तप्रकर्षः प्रसक्त इति वाच्यम्, अतीन्द्रियेऽपि मनोज्ञाने, शास्त्रार्थावधारणरूपे शास्त्रभावनाप्रकर्षजन्ये शास्त्रातिक्रान्तविषयेऽतीन्द्रियविषयसामर्थ्ययोगप्रवृत्तिसाधनेऽध्यात्मशास्त्रप्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । न च भावनाजन्यमेव प्रातिभवत्केवलज्ञानं प्राप्तं, तथा चाप्रमाणं स्यात् कामातुरस्य सर्वदा कामिनी भावयतो व्यवहितकामिनीसाक्षात्कारवदिति वाच्यम्, अप्रामाण्ये भावनाजन्यत्वस्याप्रयोजकत्वात्, बाधितविषयत्वस्यैव प्रयोजकत्वात्, भावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात् प्रकृते च विषयबाधाभावात् । न च व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनायाः क्लृप्तत्वात्तज्जन्यत्वेनास्याप्यप्रामाण्यं, बाधितविषयत्ववद्दोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वादिति वाच्यम्, भावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वानिश्चयात्, अन्यथा शंखपीतत्वभ्रमकारणीभूतस्य पीतद्रव्यस्य स्वविषयज्ञानेऽप्यप्रामाण्यप्रयोजकत्वं स्यादिति न किञ्चिदेतत् । क्वचिदेव कश्चिद्दोष इत्येवाङ्गीकारात् विषयबाधेनैव दोषजन्यत्वकल्पनाच्च । दुष्टकारणजन्यस्याप्यनुमानादेविषयाबाधेन प्रामाण्याभ्युपगमात् । न च परोक्षज्ञानजन्यभावनाया अपरोक्षज्ञानजनकत्वासम्भवः न हि वह्त्यनुमिति