________________
५९१
द्वितीयो भाग / सूत्र - २, द्वितीयः किरणे साधुना निजव्याधिप्रतीकारोपाये पृष्टे ममाप्येकदैवं सञ्जातोऽमुकेनौषधेन चोपशमं गत इत्येवं वदता रोगिणो भैषज्यकरणाभिप्रायोत्पादनादौषधसूचनं कृतं भवतीति सूक्ष्मो बादरः प्रसिद्ध एव । क्रोधपिण्ड:-विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफल दर्शनं वा भिक्षार्थं कुर्वतोऽयं दोषः । मानपिण्ड:-साधूनां समक्षं पणं कृत्वा तदाऽहं लब्धिमान् यदा भवतां सरसमाहारममुकगृहादानीय ददामीत्युक्त्वा गृहस्थं विडम्ब्य गृह्णाति तदाऽयं दोषः । मायापिंड:-वेषपरावर्त्तादिना मायया प्रतारणेन दापयत्यात्मने भक्तादिदानाय च परं प्रयोजयति यदा तदाऽयं दोषः । लोभपिण्ड:-अद्याहममुकं सिंहकेसरादिकं ग्रहीष्यामीति बुद्ध्याऽन्यद्वल्लचनकादिकं लभ्यमानमपि यन्न गृह्णाति किन्तु तदेवेप्सितं स लोभपिण्डः । अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनकश्रीप्रभृतिकं भद्रकरसमिति कृत्वा यद्गृह्णाति स लोभपिण्डः । संस्तवपिण्ड:-पूर्वं जननीजनकादिद्वारेण पश्चाच्च श्वश्रूश्वशुरादिद्वारेणात्मपरिचयानुरूपं सम्बन्धं भिक्षार्थं घटयता ग्राह्यः पिण्डः, सम्बन्धिसंस्तवो वचनसंस्तवश्चेति स द्विविधः मातृश्वश्रादिरूपतया संस्तवस्सम्बन्धिसंस्तवः । श्लाघारूपतया संस्तवो वचनसंस्तवस्तथाकरणेन लब्धः पिण्डो दूषितः । विद्यापिण्ड:-यया विद्यया सुरं साधयित्वाऽऽहारं गृह्णाति तदा विद्यापिण्डः, अथवा विद्यां पाठयित्वा भोजनादिकं गृहस्थादृह्णाति तदा विद्यापिण्डः । मन्त्रपिण्ड:-मंत्रेणावाप्तः पिण्डः, पादलिप्तसूरयो मुरुण्डराजानं प्रति मंत्रं प्रयुक्तवन्तः परं तत्र न कोऽपि दोषस्तेषां तं प्रत्युपकारित्वादेवं संघादिप्रयोजनेन मंत्रे प्रयुज्यमाने न दोषः किन्तु केवलं भिक्षार्थमेव मंत्रप्रयोगे क्रियमाणे दोषः । चूर्णपिण्ड:-वशीकरणाद्यर्थं अञ्जनादिचूर्णप्रयोगादवाप्तः पिण्डो दुष्टः । योगपिण्डः यदा मुग्धलोकान् सौभाग्यादिविलेपनराजवशीकरणादितिलकेन जलस्थलमार्गोल्लंघनसुभगदुर्भगविधिमुपदिश्याऽऽहारं गृह्णाति तदा योगपिण्डदोषः । मूलकर्मपिण्डः-पुत्रादिजन्मदूषणनिवारणार्थं मघाज्येष्ठाऽऽश्लेषामूलादिनश्चत्रशान्त्यर्थं मूलैर्वनस्पत्यवयवैस्स्नानमुपदिश्याहारदिकं गृह्णाति तदायं दोषः । इत्युपार्जनादोषाः । शङ्कितदोषः, भक्तपानादौ या शङ्का कल्पनीयाकल्पनीयधर्मविषया, न विद्मः किमिदमुद्गमादिदोषयुक्तं किं वा नेत्याशंकास्पदीभूतं असति कल्पनीयनिश्चये ददती प्रत्याचक्षीत न मम कल्पते एतादृशमिति । म्रक्षितदोषः-सचित्तपृथिव्यादिना गुण्ठितं, तद्विविधं सचित्तेन पृथिव्यप्कायवनस्पतिकायेनावगुण्ठितं, अचित्तम्रक्षितञ्चेति, अचित्तपदेन वसादिः पूतादिश्च गृह्यते । निक्षिप्तदोषः-सचित्तायुपरिस्थापितपिण्डादिः । पिहितदोष:उदकुंभेन पेषण्या पीठकेन शिलापुत्रकेण मृल्लेपादिना केनचिज्जतुसिक्थादिना वा स्थगितं