________________
५९०
तत्त्वन्यायविभाकरे सुविहितानाम् तच्चानिसृष्टमनेकधा मोदकविषयं चुल्लकविभोजनविषयम् विवाहादिविषयं दुग्धविषयं आपणादिविषयमित्यादि । अध्यवपूरकम्-अधि आधिक्येनावपूरणं स्वार्थदत्ताधिश्रयणादेस्साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणमध्यवपूरः, स एवाध्यवपूरकस्तद्योगाद्भक्ताद्यप्यध्यवपूरकम्, तदपि स्वगृहयावदर्थिकमिश्रं स्वगृहसाधुमिश्रं स्वगृहपाषण्डमिश्रश्चेति स्पष्टस्वरूपं त्रिविधम्, प्रथमतः पाकारम्भकाले स्वनिमित्तं पाके निष्पाद्यमानेऽत्रान्तर एव यथासम्भवमुपस्थितयावदर्थिजननिमित्तं पुनरवतार्य विशेषेण तण्डुलादीन् प्रक्षिप्य पचति सोऽध्यवपूरक इत्युद्गमदोषाः । धात्रीपिण्डः बालस्य क्षीरमज्जनमण्डनक्रीडनालङ्काराऽऽरोपणकर्मकारिण्यः पञ्च धात्र्यः, एतासां कर्मधात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः, रुदन्तं बालकमुद्वीक्ष्य भिक्षार्थं प्रविष्टस्साधुः प्रथमं भिक्षां दत्त्वा स्तन्यं पायय, पश्चाद्वा भिक्षां देहि, नो चेदहमस्मै क्षीरं दास्याम्यन्यस्या वा स्तन्यं पाययामीत्यादिरूपेण वदन् यं पिण्डं लभते सं धात्रीपिण्डः । परस्परसन्दिष्टार्थकथिका दूती सा द्विधा स्वग्राम परग्रामे च यस्मिन् ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देश कथिका तहि स्वग्रामदूती, या तु परग्रामे गत्वा सन्देशं कथयति सा परग्रामदूती, तन्निमित्तं पिण्डः दूतीपिण्डः । निमित्तपिण्ड:-अतीतानागतवर्तमानकालेषु लाभादिकथनं भिक्षार्थं कुर्वतोत्पादनादोषसंपर्केण गृहीतपिण्डः, लाभालाभसुखदुःखजीवितमरणरूपविषयभेदात्स षड्विधः । आजीवनपिण्ड:-जातिकुलगणकर्मशिल्परूपाजीवनेनोत्पादिताऽऽहारशय्यादिकम्, मातृसमुत्था जातिर्बाह्मणादिर्वा, पितृसमुत्थं कुलमुग्रादि वा, गणो मल्लादिवृन्दं, कर्म कृष्यादि, शिल्पं तृणादितूण्डनसीवनप्रभृति, जात्या जीवनं पृष्टो ऽपृष्टो वाऽऽहारार्थं स्वजाति प्रकटयति यथाऽहं ब्राह्मण इत्यादि तदा स जात्या जीवनपिण्डः एवमन्येष्वपि भावनीयम् । वनीपकः-दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा याचनया लब्धः पिण्डः । भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुराहारादिलुब्धतया तत्तद्भक्तगृहिणः पुरतश्शाक्यादिभक्तमात्मानं दर्शयति, निर्ग्रन्थशाक्यतापसगेरुकाऽऽजीवकरूपेण पञ्चधा श्रमणाः । चिकित्सापिण्ड:-वमनविरेचनबस्तिकर्मादि कारयतो भैषज्यादि सूचयतो वा भिक्षार्थे यः पिण्डः स चिकित्सापिण्डः, सूक्ष्मः औषधविधिवैद्यज्ञापनेन, बादरः स्वयं चिकित्साकरणेन । अन्यस्मात्कारणाच्च भिक्षार्थं गृहे प्रविष्टेन
१. ज्ञानदर्शनशुद्धाविवोद्गमादिदोषपरिशुद्धाहारे गृहीते चारित्रशुद्धिर्भवति तथा च ज्ञानावरणादिकर्मणोऽपगमो भवति, तदपगमे आत्मनो यथावस्थितस्वरूपलाभात्मको मोक्षस्ततो मोक्षार्थिना चरणशुद्धयर्थं नियमेनोद्गमादिदोषपरिशुद्ध आहारो ग्राह्य इति ॥