________________
द्वितीय भाग / सूत्र - २, द्वितीय: किरणे
५८९
द्रव्यक्रीतम्, यत्पुनरात्मना भक्ताद्यर्थं धर्मकथादिना परमावर्ज्य भक्तकादि ततो गृह्यते तदात्मभावक्रीतम्, तथा यत् परेण साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतं यत्पुनः परेण साध्वर्थं निजविज्ञानप्रदानेन परमावर्ज्य ततो गृहीतं तत्परभावक्रीतम् । प्रामित्यं - साध्वर्थमन्नादि वस्त्रमुच्छिन्नमानीयते तप्रामित्यं, अपमित्य- भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमित्त - मुच्छिन्नं गृह्यते तत्तथा, तच्च लौकिकलोकोत्तरभेदतो द्विविधम् साधुविषयं भगिन्यादिभिः क्रियमाणद्रव्यमाद्यम्, द्वितीयन्तु परस्परं साधूनामेव वस्त्रादिविषयम् । परिवर्त्तितम्साधुनिमित्तं कृतपरावर्त्तरूपं तदपि लौकिकलोकोत्तर भेदाभ्यां द्विविधम्- कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतग्रहणं, कोद्रवकूरं समर्पयित्वा साधुनिमित्तं शाल्योदनग्रहणञ्चाद्यम्, द्वितीयञ्च यत्साधुस्साधुना सह वस्त्रादिपरिवर्त्तनकरणरूपम् । अभ्याहृतं - साधुदानाय स्वग्रामात्परग्रामाद्वा समानीतम् - आचीर्णमनाचीर्णमिति तद्द्द्विविधम्, निशीथाभ्याहृतनोनिशीथाभ्याहृतभेदेनानाचीर्णं द्विविधम्, यदर्धरात्रावानीतं प्रच्छन्नं साधूनामपि यदभ्याहृतमित्यविदितं तदाद्यं, नोनिशीथाभ्याहृतं तु तद्विपरीतं यत्साधूनामभ्याहृतमिति विदितम्, देशे देशदेशे चाचीर्णं, हस्तशतप्रमितक्षेत्रं देशः तावन्माने आचीर्ण उपयोगपूर्वकाणि यदि त्रीणि गृहाणि भवन्ति ततः कल्पते, हस्तशतमध्ये तु देशदेशः, एतन्मध्यवर्ति मध्यमम् । यदोर्ध्वोपविष्टा कथमपि स्वयोगेन मुष्टिगृहीतेन मण्डकादिना यदि वा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयोत्पाटिता, अत्रान्तरे च कथमपि साधुरागच्छति भिक्षार्थं तस्मै च यदि करस्थं ददाति तदा करपरिवर्तनमात्रं जघन्यमभ्याहृतमाचीर्णम्, हस्तशतादभ्याहृतमुत्कृष्टम् । उद्भिन्नम्साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितोद्घाटनम्, इदञ्च पिहितोद्भिन्नमुच्यते, यत्तु पिहितं कपाटमुद्घाट्य साधुभ्यो दीयते तत्कपाटोद्भिन्नम्, मालापहृतम्-उच्चस्थानात्साध्वर्थमुत्तार्याऽऽहारादीनां दानम्, द्विविधं जघन्यमुत्कृष्टञ्चेति तत्, भूविन्यस्ताभ्यां पादयोरग्रभागाभ्यां फलकसंज्ञाभ्यां पाष्णिभ्यां चोत्पाटिताभ्यामूर्ध्वविगलितोच्चसिक्ककादिस्थितं दाया दृष्टेरगोचरं यद्दीयते तज्जघन्यं मालापहृतम् बृहन्निः श्रेण्यादिकमारुह्य प्रासादोपरितलादानीय यद्दीयते तदुत्कृष्टमुभयमप्यकल्प्यम् । आच्छेद्यम् - आच्छिद्यापहृत्य यद्भक्तादिकं प्रभुः भृत्यादीनां कर्मकरादीनां सत्कं ददाति तत् । त्रिप्रकारं तत् प्रभ्वाश्रितं, स्वामिविषयं, स्तेनकविषयञ्च । एतत्त्रिविधमप्याच्छेद्यं तीर्थकरगणधरैः निराकृतमतः श्रमणानांतद्ग्रहीतुं न कल्पते । अनिसृष्टम् यदा द्वित्राणां पुरुषाणां साधारणे आहार एकोऽन्याननापृच्छय साधवे ददाति तादृशमनिसृष्टम्-अननुज्ञातं तीर्थकरगणधरैरिति यावत्, अनुज्ञातं पुनः कल्पते