________________
५८८
तत्त्वन्यायविभाकरे ऽऽहारशय्यावस्त्रपात्राणां सर्वदोषरहितानां ग्रहणं पिण्डविशुद्धिरित्यर्थः, तत्र दोषाश्चाहारविषया षोडशोद्गमदोषाः षोडशोपार्जनादोषाः दशैषणादोषाः पञ्च संयोजनादोषा इत्येवं मिलितास्सप्तेचत्वारिंशदेषणाया दोषा एवोच्यन्ते, एतेषां विशोधनेन पिण्डस्य विशुद्ध्या चारित्रशुद्धिद्वारा मोक्षावाप्तिः । तत्रोद्गमदोषे आधाकर्म साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं पच्यत गृहादिकं वा सङ्गह्यते वयते वा वस्त्रादिकं कारयति वा पात्रादिकममुकस्मै साधवे देयमिति, तादृशपाकादिक्रिया तद्योगाद्भक्ताद्यपि आधाकर्मोच्यते, तच्चाधोगतिकारणम्, प्राणातिपाताद्याश्रवप्रवत्तेः, तथा तत्प्रतिसेवनप्रतिश्रवणतद्भोक्त्रादिसंवासा अप्याधाकर्मात्मकाः भवंति । औद्देशिकं तावत्-दुभिक्षापगमे वाचा साध्वादीनुद्दिश्य यद्भिक्षावितरणं तदुद्दिष्टौद्देशिकं, यदुद्धरितमोदनादि व्यञ्जनादिना मिश्रयित्वा तस्य वितरणं तत्कृतौदेशिकं, यच्च तत्त्वा गुडादिना मोदकचूरीबन्धवितरणं तत्कौंदेशिकमिति । पूतीकर्म-पवित्रस्यापवित्रकरणं, यथा शुचिः पयोघटोऽपि मद्यबिन्दुनैकेनाशुचिः स्यात्तथा विशुद्धाहारोऽप्याधाकर्मादियोगात्पूतिकः स्यात् उद्गमादिदोषरहितं भक्तं सदपि तादृशं भुज्यमानं निरतिचारमपि चरणं पूर्ति करोतीत्ययं दोषः । मिश्रजातं-गृहिसंयतोभयप्रणिधानेन पाकादिभावमुपगतं-सामान्यतो भिक्षाचरस्वकुटुम्बनिमित्तं मिलित्वा पाचितं, पाखण्डिस्वकुटुम्बनिमित्तं मिलित्वा पाचितं, केवलसाधुस्वकुटुम्बनिमित्तं सम्मील्य पाचितञ्च तद्भवति । स्थापना-साधुभ्यो देयमिदमिति चुल्लीस्थाल्यादौ स्वस्थाने सुस्थितछज्जकादौ परस्थाने चिरकालमल्पकालञ्च घृतादीनां क्षीरादीनां स्थापनम् । प्राभृतिका-कालान्तरभाविनां विवाहादीनामन्तर एव साधुसमागमे तेषामप्युपयोगो विवाहादिसम्भवमोदकादीनां भवत्विति बुद्ध्या इदानीमेव करणं सन्निकृष्टस्य वा विवाहादेः कालान्तरे साधुसमागमं विभाव्य तदानीमेव करणं तद्योगात्तादृशभक्तादिकमपि । प्रादुष्करणम्-वह्नि प्रदीपमण्यादिना भित्त्यपनयनेन वा बहिर्निष्काश्य द्रव्यधारणेन वा प्रकटकरणम् । तद्विधा प्रकटकरणं प्रकाशकरणञ्चेति, अन्धकारादपसार्य बहिः प्रकाशे स्थापनं प्रकटकरणं, स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटीकरणं प्रकाशकरणम् । रत्नेन पद्मरागादिना प्रदीपेन ज्योतिषा ज्वलता वैश्वानरेण तत्रैवं प्रकाशना सुविहितानां न कल्पते, प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि तत्संयमिनां न कल्पते, ज्योति:प्रदीपाभ्यान्तु प्रकाशितमात्मार्थे कृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शादिति । क्रीतम्-साध्वादिनिमित्तं क्रयेण निष्पादितम् तदपि आत्मद्रव्यक्रीतमात्मभावक्रीतं परद्रव्यक्रीतं परभावक्रीतञ्चेति चतुर्विधम्, स्वयमेवोज्जयन्तभगवत्प्रतिमाशेषादिरूपेण द्रव्येण परमावर्ण्य यत्ततो भक्तादि गृह्यते तदात्म