________________
द्वितीयः किरणः
मूलगुणसद्भाव एव मोक्षार्थिभिस्साधुभिर्यन्निष्पाद्यते तत्करणं सप्ततिविधमित्याह -
पिण्डविशुद्धिसमिति भावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनागुप्त्यभिग्रहभेदेनाष्टविधमपि करणमवान्तर भेदात्सप्ततिविधम् ॥१॥ पिण्डविशुद्धीति । सप्ततिविधमिदमुत्तरगुणरूपं बोध्यम् ॥
કરણસપ્તતિ નામક બીજું કિરણ મૂલગુણના સદ્ભાવમાં જ મોક્ષાર્થી સાધુઓથી જે કરાય છે, તે કરણ સિત્તેર પ્રકારનું છે. તેને કહે छ___ भावार्थ - "पिंडविशुद्धि-समिति-भावना-प्रतिमा-5न्द्रियनिरोप-प्रतिरोपन-गुप्ति भने अमिडना ભેદથી આઠ પ્રકારનું કરણ, તેમજ અવાન્તરભેદથી સિત્તેર પ્રકારનું કરણ છે.”
વિવેચન – ઉત્તરગુણરૂપ સપ્તતિપ્રકારનું કારણ જાણવું. હવે પ્રભેદ સહિત સિત્તેર ભેદોને કહેવાની ઇચ્છાવાળા પહેલાં પિંડવિશુદ્ધિને કહે છે.
अथैतान् सप्रभेदान् व्याख्यातुकामः प्रथमं पिण्डविशुद्धिमाह - सर्वदोषरहिताऽऽहारोपाश्रयवस्त्रपात्रपरिग्रहात्मिकाश्चतस्रः पिण्डविशुद्धयः ॥२॥
सर्वेति । पिण्डनं पिण्डः, बहूनां सजातीयानां विजातीयानां कठिनद्रव्याणां एकत्र समुदाय इत्यर्थः, तत्र च समुदायसमुदायिनोरभेदेन त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते, तस्य विविधमनेकैराधाकर्मादिपरिहारप्रकारैश्शुद्धिनिर्दोषता पिण्डविशुद्धिः, तथा चात्र पिण्डशब्देन भावपिण्डोपष्टम्भकमचित्तद्रव्यरूपमाहारशय्यावस्त्रपात्ररूपवस्तुचतुष्टयं गृह्यते तस्मात्पिण्डविशुद्धेश्चतुर्विधत्वमित्याशयेनाह सर्वदोषरहितेत्यादि । तथा