________________
५९२
तत्त्वन्यायविभाकरे लिप्तं वा सदुद्भिद्य दायकश्रमणार्थं यदि दद्यात्तदा तद्ग्रहणेऽयं दोषः । संहृतदोष:दानानुचितं सचित्तेषु पृथिव्यादिष्वचित्तेषु वा केषुचित्पात्रेषु निक्षिप्य तेन रिक्तीकृतपात्रकेणैव भक्तं यदा दीयते तदायं दोषः । दायकदोषः-बालवृद्धमत्तोन्मत्तग्रहगृहीतवेपमानज्वरितान्धप्रगलितारूढपादुकादीनां चत्वारिंशतां दायकानां हस्ताद्भिक्षादीनां ग्रहणम् । उन्मिश्रदोषः, अशनपानखाद्यस्वाद्यादिकं जातिपाटलादिभिः पुष्पैर्बीजहरितादिभिर्वा मिश्रं संयतानामकल्पिकं ददतो न मम कल्पत इति प्रत्याचक्षीतान्यथा दोषस्स्यात् । अपरिणतदोषः, रूपान्तरानापन्नमपरिणतं यथा दुग्धं दुग्धभाव एव स्थितं दधिभावमनापन्नम्, भावोनस्तूभयोः पुरुषयोराहारो वर्त्तते तन्मध्ये एकस्य साधवे दातुं मनोऽस्ति एकस्य च नास्ति तदाहारोऽपरिणतदोषयुक्तः स्यात् । लिप्तदोषः-सर्वतः पिच्छलीकृतं, मृत्तिकया सर्वतः खरण्टितं, गर्हितद्रव्यादिना लिप्तम् । छदितदोष:-दीयमानस्यान्नादेः पृथ्वीकायादिसंसक्तत्वादि छर्दितम्, छर्दितमुज्झितं त्यक्तमिति पर्यायाः, तदपि कदाच्छिद्यते सचित्तमध्ये, कदाचिदचित्ते कदाचिन्मिश्रे, ततश्छदितानां सचित्ताचित्तमिश्रद्रव्याणामाधारभूतानामाधेयभूतानाञ्च संयोगतश्चतुर्भङ्गी भवति, एतत्सम्बन्धिसर्वेषु भङ्गेषु भक्तादिग्रहणं प्रतिषिद्धमिति दशैषणादोषाः । संयोजनादोषाः पञ्च, संयोजनं नाम भक्तादेर्गुणान्तरोत्पादनीयद्रव्यान्तरमीलनम्, ते च संयोजनातिबहुकाङ्गारधूमनिष्कारणरूपाः पञ्चविधाः तत्र लोभाद्रव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना रसविशेषोत्पादनाय वसतेर्बहिरन्तर्वा योजनं संयोजना । धृतिबलसंयमयोगा यावता न सीदन्ति तावदाहारप्रमाणं, अधिकाहारस्तु वमनाय मृत्यवे व्याधये वेति अतिबहुको दोषः । स्वादन्नं तद्दातारं वा प्रशंसयन् यद्भुङ्क्ते स रागाग्निना चारित्रेन्धनस्याङ्गारीकरणादङ्गारदोषः । निन्दन् पुनः चारित्रेन्धनं दहन धूमकरणाद्धूमदोषः । षड्भोजनकारणाभावे भुञ्जानस्य कारणाभावो दोषः । क्षुद्वेदनाऽसहनं, क्षामवैयावृत्त्याकरणं, ईर्यासमित्यविशुद्धिः, प्रत्युपेक्षणाप्रमार्जनादिसंयमापालनं क्षुधातुरस्य प्रबलारत्युदयात्प्राणप्रहारशङ्का, आर्त्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणमिति षड् भोजन
१. अपरिणतं द्विविधं द्रव्ये भावे च प्रत्येकमपि दातृग्रहीतृसम्बन्धाद्विधा, दुग्धत्वात्परिभ्रष्टं दधित्वमापन्नं परिणतमुच्यते, दुग्धभावे वाऽवस्थितेऽपरिणतं, भावविषयन्तु उभयोः पुरुषयोरिति टीकोक्तं वेदितव्यम् ॥ २. संयोजना द्विविधा द्रव्यविषया भावविषया च, द्रव्यसंयोजना च बहिरन्तश्च, यदा भिक्षार्थं हिण्डमानस्सन् क्षीरादिकं खण्डादिभिस्सह रसगृद्धया संयोजयति तदा बाह्या संयोजना, यदा तु वसतावागत्य भोजनवेलायां पात्रे कवले वदने वा संयोजयति तदाऽभ्यन्तरा । एवं कुर्वन् आत्मनि ज्ञानावरणादिकं कर्म संयोजयति, दीर्घतरभवाच्च दुःखं संयोजयति ॥