________________
तत्त्वन्यायविभाकरे
ज्ञानमर्थः, एतच्चावध्यादावव्याप्तं तस्मादक्षाश्रितत्वं गमनक्रियाया इव गोशब्दस्य व्युत्पत्तिनिमित्तमेव वाच्यम्, प्रवृत्तिनिमित्तं तु गतिक्रियोपलक्षितं गोत्वमिवाक्षाश्रितत्वोपलक्षितसाक्षाद्ग्राह्यग्राहकज्ञानविशेष एव तच्च प्रवृत्तिनिमित्तं गतिक्रियादिशून्येऽपि गवादिपिण्डविशेष इवाक्षाश्रितत्वशून्येऽप्यवध्यादावस्त्येवेति न कोऽपि दोषः । पारमार्थिकञ्च तत्प्रत्यक्षञ्च पारमार्थिकप्रत्यक्षम्, ननु यदिन्द्रियद्वारेण प्रवर्त्तत आत्मनि ज्ञानं तत्प्रत्यक्षं न चेन्द्रियव्यापारव्यवहितत्वादात्मना साक्षान्नोपलब्धमिति वाच्यम्, इन्द्रियाणामुपलब्धि प्रति करणतया व्यवधायकत्वासम्भवात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वान्न साक्षाद्भोक्तेति व्यपदेष्टुं शक्यमिति चेन्मैवम्, आत्मना चक्षुरादिसादुण्यापेक्षणात् यदा हि चक्षुस्सगुणं भवति तदा बाह्यमर्थं स्पष्टं यथावस्थितञ्चोपलभते यदा तु तिमिराश्रुभ्रमणनौयानपित्तादिसंक्षोभदेशदवीयस्त्वाद्यापादितविभ्रमं भवति तदा विपरीतं संशयितं वोपलभते तथा चावश्यमात्माऽर्थोपलब्धौ पराधीनः । तथा चक्षुरादिनोपदर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तदा चक्षुरादिसादुण्यमेव प्रतीत्य निश्चयं विदधाति यथा न मे चक्षुस्तिमिराद्युपप्लुतं ततोऽयमर्थस्समीचीन इति, तस्माच्चक्षुरादिसागुण्यावधारणतो वस्तुयाथात्म्यावधारणाद्वस्तुतस्तत्परोर्क्षमिति भाव । परोक्षमिति, आत्मापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोरूपेभ्यः परेभ्यः अक्षस्य जीवस्य यद्वर्त्तते तत्परोक्षं मतिश्रुतरूपम् । पुद्गलनिचयनिष्पन्नानि हि द्रव्येन्द्रियमनांसि जीवस्य परभूतान्यतस्तेभ्यो यन्मतिश्रुतलक्षणं ज्ञानं धूमादेरग्न्यादिज्ञानवत्परनिमित्तत्वात्परोक्षं, किञ्चेन्द्रियमनोनिमित्तं ज्ञानं परोक्षं तत्र संशयविपर्ययानध्यवसायसम्भवात् इन्द्रियमनोनिमित्तकासिद्धानैकान्तिकविरुद्धानुमानवत्, तत्र निश्चयसम्भवाद्धूमादेर्वहन्यनुमानवत्, यत्तु प्रत्यक्षं तत्र न संशयादयो निश्चयश्च सम्भवत यथावध्यादिषु, न चावध्यादिषु निश्चयसंभवाद्व्यभिचार इति वाच्यम् । संकेतस्मरणादिपूर्वकत्वे सतीति विशेषणात् न चावध्यादीनां मनोनिमित्तकत्वात्परोक्षता स्यादिति वाच्यम्, मनःपर्याप्त्याऽपर्याप्तानां मनुष्यदेवादीनामवधिज्ञान श्रवणेन तेषां मनोनिमित्तकत्वाभावादिति ॥
१२
१. न चानभ्यासदशामापन्नस्यैव वस्तुयाथात्म्यावधारणमिन्द्रियसागुण्यावधारणपूर्वकं भवतु न त्वभ्यासदशापन्नस्य, तदन्तरेणापि प्रकृष्टाभ्यासबलात् साक्षात्तस्यावबोधादतस्तस्येन्द्रियाश्रित ज्ञानं प्रत्यक्षं स्यादिति वाच्यम्, तत्रापीन्द्रियसाद्गुण्यसापेक्षत्वस्य दुर्वारत्वात्, अभ्यासप्रकर्षवशाच्चेन्द्रियसाद्गुण्यस्य झटित्येव निश्चयात् कालसौक्ष्म्यात्तदनुपलब्धेः । अपायमात्रं ह्यवग्रहेहापूर्वकं तत्रेहा विचाररूपा विचारश्चेन्द्रियसादृण्यसद्भूतवस्तुधर्माश्रितः न हीन्द्रिये वस्तुनि वा सम्यगविचारिते सति यज्ज्ञानं तत्समीचीनं भवतीति ॥