________________
५३२
तत्त्वन्यायविभाकरे शुद्धनयेन देशसर्वभेदेनाराधाकत्वविराधकत्वभेदाभावात्, कदा योगद्वयस्य चानभ्युपगमात्, अन्यथा शबलकर्मबन्धप्रसङ्गात् । तत्र सत्यं जनपदसंमतस्थापनानामरूपप्रतीत्यव्यवहारभावयोगौपम्यसत्यभेदेन दशविधम् । जनपदसत्यञ्च नानादेशभाषारूपम्, एकत्र देशे यदर्थवाचकत्वेन रूढं यद्वचनं तदन्यत्र तदवाचकत्वेन त्यज्यमानमपि व्यवहारप्रवृत्तिहेतुत्वात्सत्यम् । यथा कोङ्कणादिषु पयः पिज्जमित्युच्यत इत्यादि । सम्मतसत्यं सकललोकसम्मत्या सत्यत्वेन प्रसिद्धं यथा पङ्कजन्यत्वस्य कुमुदकुवलयादौ तुल्यत्वेऽपि अरविन्दमेव पङ्कजमित्याबालगोपालप्रसिद्धमितरत्र त्वसम्मतत्वादसत्यम् । स्थापनासत्यं यथाऽक्षरविन्यासादावयं माषक: कार्षापणो वा शतमिदं सहस्त्रमिदमित्यादि । नामसत्यं यथा कुलं धनं वाऽवर्धयन्नपि कुलवर्द्धनोऽसौ धनवर्द्धनोऽसाविति वचनम् । रूपसत्यं यथाऽतगुणस्य तथारूपधारणं दम्भेन गृहीतयतिवेषस्य यतिरयमिति । प्रतीत्यसत्यं वस्त्वन्तरमाश्रित्य वस्त्वन्तरे दीर्घत्वहस्वत्वादिभणनं यथा कनिष्ठाङ्गल्यपेक्षयाऽनामिका दीर्घा मध्यमापेक्षया हुस्वेति, अनन्तपरिणामस्य तादृशतादृशसहकारिसन्निधाने तत्तद्रूपाभिव्यक्तेस्सत्यत्वम् । व्यवहारसत्यं यथा गिरिगततृणादिदाहे गिरिर्दहतीत्यादिकम् । भावसत्यं यथा पञ्चवर्णसम्भवे सत्यपि शुक्ला बलाकेत्यादिकम् । योगसत्वं यथा छत्रयोगाद्दण्डयोगाद्वा कदाचित्तयोरभावेऽपि छत्री दण्डीत्यादिवचनम् । औपम्यसत्यं यथा समुद्रवत्तडाग इति । अथ मृषा अपि दशभेदाः क्रोधमानमायालोभप्रेमद्वेषहास्यभयाख्यायिकोपघातनिस्सृतभेदात्, क्रोधनिस्सृतं वचनं यथा क्रुद्धः पिता पुत्रं प्रत्याह न मे त्वं पुत्र इत्यादि । माननिःसृतं मानात्कश्चिदल्पधनोऽपि वक्ति महाधनोऽहमित्यादि । मायानिस्सृतं यथा मायाकारप्रभृतय आहुर्नष्टो गोलक इत्यादि । लोभनिस्सृतं यथा वणिक्प्रभृतयोऽन्यथाक्रीतमेवेत्थं क्रीतमित्यादि । प्रेमनिःसृतं यथाऽतिरिक्तानां वचनं स्त्र्यादिकं प्रत्यहं तव दास इत्यादि । द्वेषनिःसृतं यथा गुणवत्यपि निर्गुणोऽयमित्यादि । हास्यनिस्सृतं यथा गृहे स्थितमपि हास्यान्नात्र मे पितेत्यादि । भयनिःसृतं यथा तस्करादिभयेऽसमञ्जसाभिधानम् । आख्यायिकानिस्सृतं यथा काल्पनिक कथाद्यभिधानम् । उपघातनिःसृतं यथाऽचौरे चौरस्त्वमित्यसभ्याख्यानम् । सत्यामृषारूपञ्च वचनं उत्पन्नविगतमिश्रकजीवाजीवजीवाजीवानन्तप्रत्येकाद्धाद्धाद्धामिश्रितभेदाद्दशविधम् । उत्पन्नमिश्रितं यथा दशन्यूनाधिकभावेन दारकाणां क्वचिद्ग्राम उत्पादेऽद्य तत्र दश दारका उत्पन्ना इत्यादि, तथा श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशद्दानम्, अत्र लोके मृषात्वादर्शनादनुत्पन्नांशे मृषात्वव्यवहाराच्च । विगतमिश्रितं यथा तथैव मरणकथनम् । मिश्रकमिश्रितं यथा तथैवाद्य नगरे दश