________________
तृतीय भाग / सूत्र - ५, प्रथमः किरणे
५३१
नास्तीत्यादिकम् । आत्मा सर्वगत इति द्वितीयम् । गव्यश्वत्ववचनं तृतीयम् । क्षेत्रं कृष, काणं प्रति काण इत्यादि वचनं तुर्यम् ॥ ५ ॥
अतद्वतीति । अचौरं चौर इत्याक्रोसनमलीकमित्यर्थः । अप्रियमपथ्यञ्च व्यवहारतस्सत्यमपि अप्रीतिकारित्वादायतावहितकारित्वात्परमार्थतोऽसत्यम्, एवंविधाद्वचनात्सर्वथा ज्ञानश्रद्धानपूर्वकं विरमणं सत्यव्रतं द्वितीयमित्यर्थः । ननु ऋतशब्दस्सत्यार्थे वर्त्तते सत्सु साधुस्सत्यं प्रत्यवायकारणानिष्पादकत्वात्, न ऋतमनृतमसत्यमित्यर्थः तथा च मिथ्यावचनमसत्यमित्येवोच्यतां लाघवादित्याशङ्कायामाहासत्यमिति, अयं भावो मिथ्याशब्दो विपरीतार्थे वर्त्तते तेन भूतनिह्नवाभूतोद्भावनार्थान्तरणामेवसत्यत्वं स्यात् यथा नास्त्यात्मा सर्वगत आत्मेत्यादिवचनानि यत्तु विद्यमानार्थविषयं व्यवहारतस्सत्यमपि प्राणिपीडाकरं परमार्थतोसत्यरूपं गर्हात्मकवचनसत्यं न भवेदिति न तथोपन्यासः साधुरिति, उदाहरणान्याहाद्यमिति, भूतनिह्नवा - त्मकमलीकमित्यर्थः, केचिदात्मनः कर्तुर्विद्यमानस्यानुभववेद्यस्य शुभाशुभकर्माधारस्यानुभवस्मरणाद्याधारस्य मोहान्नास्तित्वं प्रतिजानते, तेषामभिधानं भूतनिह्नवरूपमिति भावः । अभूतोद्भावनस्य दृष्टान्तमाहात्मेति केचित्स्वरुच्या यथावस्थितमसंख्येयप्रदेशपरिमाणमाश्रयवशात्संकोचविकासधर्माणमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमात्मानमवधूयाज्ञानबलेन सर्वगतं निष्क्रियमङ्गुष्ठपर्वमादित्यवर्णं प्रमाणशून्यं समुद्भावयन्ति तदेतेषामभिधानमभूतोद्भावनात्मकमनृतमिति भावः । अर्थान्तरं निदर्शयति गवीति, यो गां तुरङ्गमं ब्रवीति तुरङ्गमञ्च गामिति मौढ्याच्छाठ्याद्वा वैपरीत्येन तद्वचनमर्थान्तररूपमसत्यमित्यर्थः । शास्त्रप्रतिषिद्धं कुत्सितं वागनुष्ठानं गर्हा, तामुदाहरति क्षेत्रमिति, हिंसानिवृत्तिप्रतिबन्धकत्वादस्य वचनस्यासत्यत्वम्, हिंसानिवृत्तिपरिरक्षणार्थं मृषावादादिनिवृत्तेरुपदिष्टत्वात् । काणं प्रति काण इतीति, निष्ठुरवचनमेतत्, तदपि परपीडोत्पादहेतुत्वात्सत्यमपि गर्हितम्, एवं छलदम्भकटुकादिवचसामनृतत्वं भाव्यम् । अत्र च व्रते चतस्रो भाषा द्वाचत्वारिंशद्भेदभिन्नाः सम्यगवबोध्याः, तत्र व्यवहारनयेन सत्या, मृषा, सत्यामृषा, असत्यामृषा चेति चतुर्विधा भाषा । निश्चयनयेन तु सत्यासत्यभेदाद्विधा, आराधकत्वविराधकत्वरूपभेदानुगुण्यात् ।
१. पुण्यं पापमपि न बुद्ध्यादिवदात्मगुणः कर्मण आत्मगुणत्वे तस्य पारतंत्र्ये निमित्तं न भवेत् । न हि यो यस्य गुणः स तस्य पारतंत्र्यनिमित्तं भवति यथा पृथिव्यादे रूपादिः । अभ्युपगम्यते च परैः कर्मात्मगुणमिति । न चात्मनः पारतंत्र्यमसिद्धम् हीनस्थानपरिग्रहवत्त्वात्तत्सिद्धेः । मद्योद्रेकपारतंत्र्येण पुरुषेणाशुचिस्थानपरिग्रहवत् । शरीरं हि हीनस्थानमात्मनो दुःखहेतुत्वात् । न च गुणत्वेऽपि क्रोधादीनां पारतंत्र्यनिमित्तत्वं दृष्टमिति वाच्यम् तेषां पौद्गलिकत्वेन गुणत्वानुपपत्तेः, भावक्रोधादीनान्तु न पारतंत्र्यनिमित्तत्वमिति पुण्यपापे द्रव्यरूपे एवेति ॥