________________
अथ तृतीयो भागः प्रथमः किरणः
तदेवं मोक्षसाधनावयवभूते सम्यक्श्रद्धासंविदौ निरूपिते तथा निरूपितमेव च संवरनिरूपणे सम्यक्चरणं तदङ्गत्वेन संक्षेपतः, अत्र तु कर्माष्टकशून्यताप्रयोजकानुष्ठानलक्षणचारित्रस्य नित्यानुष्ठानप्राप्तप्रयोजनानुष्ठानतो द्वैविध्यात्तबुबोधयिषया एककार्यकारित्वप्रयोज्यत्वावसरसङ्गतिभिर्ज्ञान निरूपणानन्तरं चरणं निरूपयति -
चरणकरणभेदेन द्विविधं चरणम् ॥१॥
चरणेति । चर्यते मुमुक्षुभिस्सदाऽऽसेव्यत इति चरणम्, चर्यते गम्यते प्राप्यते भवोदधेः परं कूलमनेनेति चरणं व्रतश्रमणधर्मादिमूलगुणरूपम् । क्रियतेऽनुष्ठीयते सति प्रयोजने यत्तत्करणं पिण्डविशुद्ध्यादिकं तदेतद्विविधरूपेण सम्यक्चरणं द्विभेदमित्यर्थः । नित्यानुष्ठानरूपं चरणं, प्रयोजने प्राप्ते क्रियमाणं करणम् । व्रतादयो हि सर्वकालमेव साधुभिश्चर्यन्तेऽन्यथा स्वरूपहान्यापत्तेः, न तु व्रतशून्यस्तेषां कश्चित्कालोऽस्ति, पिण्डविशुद्ध्यादिकन्तु प्राप्ते प्रयोजन एव विधीयत इति तदुभयात्मकं चारित्रमिति भावः । तत्र चरणगुणस्थितस्य साधोविशुद्धिरतो ज्ञानाच्चरणं प्रधानं तत्फलत्वात् । ननु चरणं संवरणरूपा क्रिया सा च ज्ञानाभावे हता, तदुक्तं 'हया अन्नाणतो किरिया' इति, तस्माज्ज्ञानक्रिययोस्समुदितयोर्मोक्षसाधनत्वेनोभयोस्समानत्वमेव न चरणस्य प्रधानत्वमिति चेत्सत्यम्, सम्यक्श्रद्धासंविञ्चरणानि मुक्त्युपाया इति यद्यपि त्रयाणामपि समानकारणत्वमुक्तं तथापि गुणप्रधानभावोऽस्ति, ज्ञानं प्रकाशकमेव, चरणन्त्वभिनवकर्मादाननिरोधफलं निर्जराफलञ्च, ततो यद्यपि ज्ञानमपि प्रकाशकतयोपकरोति सदर्शनज्ञानचरणद्विकाधीनो मोक्षस्तथापि प्रकाशक तयैव व्याप्रियते ज्ञानं कर्ममलशोधकतया तु चरणमिति प्रधानगुणभावाच्चरणं ज्ञानसारः ।