________________
५०९
द्वितीयो भाग / सूत्र - ८-९, दशमः किरणे तथा चेति । क्षायोपशमिकज्ञानवानित्यनेन परत्र तत्त्वनिर्णिनीषुः केवलिभिन्नो ग्राह्यः, स्पष्टमन्यत् । आरम्भकप्रत्यारम्भकयोर्हस्तिप्रतिहस्तिन्यायेन प्रसिद्धर्यावन्त आरम्भकास्तावन्त एव प्रत्यारम्भका इत्यशयेनाहैवमिति, आरम्भकवदेवेत्यर्थः, तथा चायमपि चतुर्विध इति भावः ॥
આરંભકના પ્રકારો भावार्थ - "आरंभ-(१) [ीषु, (२) स्वात्मनि तत्त्वनिनीषु, (3) क्षयोपशमशानवाणो, भने (४) अली, अभ यार प्रा२नो मारमा समवो. मा प्रभारी प्रत्याभ ५९५ unो."
વિવેચન – અહીં ક્ષાયોપથમિક જ્ઞાનવાળો-એ પદથી પરત્ર તત્ત્વનિર્ણિનીષ કેવલિથી ભિન્ન જાણવો. બીજું સ્પષ્ટ છે. આરંભક અને પ્રત્યારંભકની હસ્તિ-પ્રતિહસ્તિના ન્યાયથી પ્રસિદ્ધિ હોવાથી જેટલા આરંભકો છે, તેટલા જ પ્રત્યારંભકો હોય છે. આવા આશયથી કહે છે કે-આરંભકની માફક આ પ્રત્યારંભક પણ ચાર, પ્રકારનો છે એમ જાણવું.
वादोऽयं चतुरङ्गोऽपि भवति, तकस्याप्यङ्गस्य वैधुर्य कथात्वानुपपत्तेः वादिप्रतिवाद्यपेक्षयाऽङ्गनैयत्यात्, न हि वर्णाश्रमपालनक्षम न्यायान्यायव्यवस्थापकं पक्षप्रतिपक्षरहितत्वेन समदृष्टिं सभापति वक्ष्यमाणलक्षणान् प्राश्निकांश्च विना वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ, नापि दुःशिक्षितकुतर्कलेशबालिशजनविप्लावितो गतानुगतिको जनस्सन्मार्ग प्रतिपद्येत, तस्मात्कयोः कयोर्वादे वादिप्रतिवादिसभ्यसभापतिरूपेषु वक्ष्यमाणलक्षणेषु चतुरङ्गेषु कत्यङ्गान्यवश्यमपेक्षितानीत्येतदर्शयति -
यदोभावपि जिगीषू, जिगीषुक्षायोपशमिकज्ञानिनौ, जिगीषुकेवलिनौ वा वादिप्रतिवादिनौ भवतस्तदा वादिप्रतिवादिसभ्यसभापतिरूपाणि चत्वार्यङ्गान्यपेक्षितानि ॥९॥
यदेति । उभावपीति, आरम्भकप्रत्यारम्भकावुभावपीत्यर्थः, जिगीषू इति, वादिप्रतिवादिनौ भवत इत्यग्रेतनेन सम्बद्ध्यते । जिगीषुक्षायोपशमिकेति, क्षायोपशमिकज्ञानी हि जिगीषुः, स्वात्मनि तत्त्वनिणिनीषुः, परत्र तत्त्वनिणिनीषुश्च । तत्र जिगीषोः प्रत्यारम्भकतया यदोभावपि जिगीषू इत्यनेनोक्तत्वात्, जिगीषोः स्वात्मनि तत्त्वनिणिनीषोश्च वादिप्रतिवादित्वासम्भवेन च परत्र तत्त्वनिर्णइनीषुरेवात्र क्षायोपशमिकज्ञानिपदेन विवक्षितः । चत्त्वार्यङ्गान्यपेक्षितानीति, वादिप्रतिवाद्यभावे हि वाद एवानुत्थानोपहतो जयपराजयौ तु दूर इति ताववश्यं सिद्धावेव, उभावपि यदि जिगीषू स्यातां तदा परस्परं जयपराजयव्यवस्थाविलोपकारि