________________
५०६
तत्त्वन्यायविभाकरे ___अङ्गीकृतेति । अङ्गीकृतो यो धर्मः कथञ्चिन्नित्यत्वादिस्तस्य साधनाय व्यवस्थापयितुं तत्साधनं कर्तुं परपक्षं दूषयितुश्च प्रवृत्तः स्वविजयं परपराजयञ्चेच्छुजिगीषुरित्यर्थः । परपराजयमन्तरेण स्वविजयासम्भवादिति भावः । तत्त्वनिर्णिनीषुमाह स्वीकृतेति, शास्त्रेणेति शेषः, परस्मिन् स्वस्मिन् वा कथञ्चिन्नित्यत्वादिव्यवस्थापनार्थं साधनदूषणवचननिचयैः कथञ्चिन्नित्यत्वादिलक्षणतत्त्वप्रतिष्ठाकाम इत्यर्थः ॥
જિગીષનું અને તત્ત્વનિર્ણિનીષનું સ્વરૂપ ભાવાર્થ – “અંગીકૃત ધર્મની વ્યવસ્થા કરવા માટે સાધન-દૂષણ વચનોથી વિજયની ઇચ્છાવાળો જિગીષ' કહેવાય છે. સ્વીકૃત ધર્મની સ્થાપના માટે સાધન-દૂષણ વચનોથી તત્ત્વના સંસ્થાપનની छावाणो तत्पनीषु' ठेवाय छे."
વિવેચન – સ્વીકારેલો જે કથંચિત નિત્યત્વ આદિ ધર્મ છે તેની વ્યવસ્થાપના માટે, તે અંગીકૃત ધર્મની સિદ્ધિ માટે અને પરપક્ષને દૂષિત કરવા માટે પ્રવૃત્તિવાળો સ્વવિજય અને પરના પરાજયની ઇચ્છાવાળો 'oll' छ भ3-५२न। ५२।४५ सिवाय स्ववियनो असंभव छ.
૦ શાસકારા, સ્વમાં કે પરમાં કથંચિત્ નિત્યત આદિ ધર્મની વ્યવસ્થાપના માટે સાધન-દૂષણના વચનોના સમુદાયથી કથંચિત્ નિત્યત્વ આદિરૂપ તત્ત્વપ્રતિષ્ઠાની કામનાવાળો “તત્ત્વનિર્ણિનીષ. છે.
अस्य प्रकारान् प्रकाशयति -
अयं स्वस्य सन्देहादिसम्भवे स्वात्मनि तत्त्वनिर्णयं यदेच्छति तदा स्वात्मनि तत्त्वनिर्णिनीषुर्भवति । परानुग्रहार्थं परस्मिन् तत्त्वनिर्णयं यदेच्छति तदा परात्मनि तत्त्वनिर्णिनीषुर्भवति ॥६॥
अयमिति । तत्त्वनिर्णिनीषुरित्यर्थः, तत्त्वनिर्णयः स्वस्य परस्य च भवति, यदा स्वस्य सन्देहादिसम्भवस्तत्परिहारेच्छा च भवति तदा स स्वात्मनि तत्त्वनिर्णयाभिलाषुकत्वात्स्वात्मनि तत्त्वनिर्णिनीषुरित्युच्यते । यस्तु परानुग्रहैकप्रवणः परस्य तत्त्वं ग्राहयितुमिच्छति तदासौ परात्मनि तत्त्वनिर्णिनीषुपरित्युच्यते इत्याशयेनाह स्वस्येत्यादिना, स्पष्टमन्यत् । ननु परत्र तत्त्वनिर्णिनीषुणा परस्मिन् निर्णय उत्पादिते सभ्यस्तस्य जयघोषस्य क्रियमाणत्वात्तस्य जिगीषुता प्राप्तेति जिगीषोरस्य कथं भेद इति चेन्न, तदनिच्छातस्तस्य परोद्धोषमात्रेण तदभिलाषुकत्वासम्भवात् । न च तासौ नाश्नुते जयमिति वाच्यम्, जयिनोऽपि तदभिलाषाभावात् । अनिष्टानामप्यनुकूलप्रतिकूलदैवोपकल्पितानां फलानां जनैरुपभुज्यमानतयाऽवलोकनात् । तथा च परत्र तत्त्वनिर्णिनीषोः परस्य तत्त्वावबोधनं मुख्यं फलमानुषङ्गिकन्तु जय इति ।।