________________
अथ दशमः किरणः
ननु व्यवस्थापितं प्रमाणनयतत्त्वं, परन्त्वनयोः प्रयोगः क्व कार्य इत्याशङ्कायां वस्तुनिर्णयायोपक्रान्ते वाद एवेति विभावयन् वादस्वरूपमाविष्करोति
स्वपरपक्षसाधनदूषणविषयं तत्त्वनिर्णयविजयान्यतरप्रयोजनं वचनं वादः ॥ १ ॥
स्वपरेति । वादिनः प्रतिवादिनो वा स्वपक्षसिद्धये यत्साधनं परपक्षविषयकञ्च यद्दूषणं तद्विषयकं वचनं वादिप्रतिवादिनोर्वाद उच्यते । तस्य किं प्रयोजनमित्यत्राह तत्त्वनिर्णयविजयान्यतरप्रयोजनमिति । साधुजनहृदयपयोजविराजमानतत्त्वानां निश्चयस्तद्द्द्वारा विजयो वा प्रयोजनं यस्य तादृशमित्यर्थः । वादिनः प्रतिवादिनो वा स्वपक्षस्य सिद्धिर्जयः, तदसिद्धिश्च पराजयः । विज्ञातप्रमाणतदाभासस्वरूपेण वादिना सम्यक्प्रमाणे स्वपक्षसाधनायोपन्यस्ते - ऽविज्ञाततत्स्वरूपेण वा वादिना प्रमाणाभास उपन्यस्ते प्रतिवादिनाऽनिश्चिततत्स्वरूपेण दुष्टतया सम्यक्प्रमाणेऽपि तदाभासतायां निश्चिततत्स्वरूपेण वा प्रमाणाभासे तदाभासतायामुद्भावितायां वादिनः प्रतिवादिनो वा प्रमाणतदाभासौ परिहृतापरिहृतदोषौ साधनदूषणे भवतः, ते च जयेतरव्यवस्थाया निबन्धने स्यातामिति जयपराजयावपि वादस्य फले । तथा स्वपक्षे साधन - ब्रुवन्नपि प्रतिवादी वादिसाधनस्याभासतामुद्भावयन् वादिनो जयति । आभासतोद्भावनयैव स्वपक्षे साधनस्योक्तत्वात्, पराजयोऽपि सम्यक्साधने परोक्तदूषणानुद्धरणादपि भवतीति
भावः ॥
―
વાદનિરૂપણ નામક દશમું કિરણ
ખરેખર, પ્રમાણ અને નયનું તત્ત્વ વ્યવસ્થાપિત કરી દીધું, પરંતુ આ પ્રમાણ અને નયનો પ્રયોગ ક્યાં કરવો ? આવી આશંકામાં વસ્તુના નિર્ણય માટે પ્રારંભેલ વાદમાં જ પ્રયોગ છે, એમ વિચારતાં વાદસ્વરૂપને પ્રગટ કરે છે.