________________
४७६
तत्त्वन्यायविभाकरे
प्रमत्तसंयत एव सम्यक्त्वस्वाम्युक्तो न प्रमत्तान्त इति श्रेणिकादीनां बहूनां प्रसिद्धं सम्यकत्वं न स्वीकरणीयं स्यात् । एवञ्च 'जो जिणदिटे भावे चउव्विहे सद्दहाइ सयमेव । सयमेव न णिहत्ति य स निओगरुईत्ति णायव्वो' इत्युत्तराध्ययनवचनाञ्चतुर्विधशब्दस्य नामस्थापनाद्रव्यभावभेदभिन्नत्वेन व्याख्यानिक्षेपचतुष्टयस्यापि यथौचित्येनाराध्यत्वमविरुद्धमिति ॥ अनुभूतस्यानुभविष्यमाणस्य वा पर्यायस्य योग्यं यन्निक्षिप्यते स द्रव्यनिक्षेपः । यथाऽनुभूतेन्द्रपर्यायोऽनुभविष्यमाणेन्द्रपर्यायो वेन्द्रः, अनुभूतघृताधारत्वपर्यायेऽनुभविष्यमाणघृताधारत्वपर्याये वा घृतघटव्यप्रदेशवत्तत्रेन्द्रशब्दव्यपदेशोपपत्तेः । क्वचिदप्राधान्येऽपि द्रव्यनिक्षेपः प्रवर्त्तते यथाङ्गारमईको द्रव्याचार्यः, आचार्यगुणरहितत्वादप्रधानाचार्य इत्यर्थः । क्वचिदनुपयोगेऽपि, यथाऽनाभोगेनेहपरलोकाद्याशंसालक्षणेनाविधिना च भक्त्यापि क्रियमाणा जिनपूजादिका द्रव्यक्रिया एव, अनुपयुक्तक्रियायास्साक्षान्मोक्षाङ्गत्वाभावात् । भक्त्याऽविधिनापि सा क्रियमाणा पारम्पर्येण मोक्षाङ्गत्वापेक्षया द्रव्यतामश्नुते भक्तिगुणेनाविधिदोषस्य निरनुबन्धीकृतत्वात् ॥ वक्तृविवक्षितक्रियानुभवयुक्तो भावो यो निक्षिप्यते स भावनिक्षेपः, यथेन्दनक्रियापरिणतो भावेन्द्र इति । ननु भावभिन्ननामादिषु त्रिषु नाम्नो भावार्थशून्यत्वेन स्थापनाया द्रव्यस्य चाविशेषेण वृत्तेविरुद्धधर्माध्यासाभावाच्च न कोऽपि भेद इति चेन्न, रूपान्तरेण विरुद्धधर्माध्याससम्भवेन भेदोपपत्तेः । स्थापनायां परिदृश्यमानानामाकाराभिप्रायबुद्धिक्रियाफलानां नाम्नि द्रव्ये चाभावात, तथाहि स्थापनेन्द्र लोचनसहस्रकुण्डलकिरीटशचीसन्निधानकरकुलिशधारणसिंहासनाध्यासनादिजनितातिशयो देहसौन्दर्यादिराकारो दृश्यते, स्थापनाकर्तुश्च सद्भूतेन्द्राभिप्रायो विलोक्यते, द्रष्टश्च तदाकारदर्शनादिन्द्रबुद्धिरुपजायते, एनमुपसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया संवीक्ष्यते । प्रायेण पुत्रोत्पत्त्यादिकं फलञ्चोपलभ्यते, न च तथा नामेन्द्रे द्रव्येन्द्रे वा, तस्मात्ताभ्यां स्थापनाभेदः । द्रव्यमपि भावस्य कारणत्वात्ताभ्यां ___ १. लक्षणे योग्यता चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदेन त्रिविधा, अतीतानागतौ च वर्तमानभवभावेन क्वचिदन्तररहितौ ग्राह्यौ, अन्यथाऽतीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेश्यप्रसङ्गस्स्यात्, वर्तमानभवस्थितो हि पुरस्कृतभवं पश्चात्कृतभवञ्चायुष्कर्म सद्व्यतया स्पृशति, यथा प्रत्यूषसन्ध्यायामादित्यः पूर्वविदेहं भरतञ्च प्रदोषसन्ध्यायान्तु भरतमपरविदेहञ्चावभासयति । तीर्थङ्करनामकर्मघटितयोग्यतया तु नानाभवव्यवधानेनापि भवति, मरीचेव्यतीर्थकरत्वप्रतिपादनात् । सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्द्यत्वप्रतिपादनस्य नानाभवसम्बन्धघटितयोग्यतां विनाऽनुपपत्तेश्चेति ॥ २. सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोबोधकाभिप्रायाकारान्यतरसंबंधवत्त्वं तत्स्थापनात्वम् । एवञ्च सादृश्यसम्बन्धस्य न स्थापनानिक्षेपनियामकत्वम्, असद्भावस्थापनोच्छेदप्रसङ्गात् । नाभिप्रायसम्बन्धस्यापि, नाम्यपि तस्य सुवचत्वेनातिप्रसङ्गादिति । अत एव द्रव्यलिङ्गिनि स्थापनाय न भावसाधुबुद्धिः, उत्कटदोषवत्त्वेन प्रतिसन्धीयमानस्य सादृश्याद्गुणवदनुस्मृतेः सूत्रबोधितबलवदनिष्टानुबन्धिनीत्वात् ॥