________________
द्वितीयो भाग / सूत्र - २४, नवमः किरणे
४७७
भिन्नम्, यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तकाले भावस्योपयोगलक्षणस्य भवति कारणम्, सोऽपि वोपयोगलक्षणो भावस्तस्यानुपयुक्तवक्तृरूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रस्सन् भावेन्द्ररूपायाः परिणतेः कारणं भवति न तथा नामस्थापने । नामापि च स्थापनाद्रव्याभ्यां प्रोक्तवैधादेव भिद्यते । यद्यपि पूर्वोदितप्रकारेणैषामभेदस्तथापि निरुक्तप्रकारेण भेदोऽपि सिद्ध एव । नहि दुग्धतक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्याविनापि न भेदोऽनन्तधर्माध्यासितत्वाद्वस्तुन इति । ननु नामादि विचारे प्रक्रान्ते भाव एव वस्तु विवक्षितार्थक्रियासाधकत्वादुभयसम्मतवस्तुवत्, नहि भावेन्द्रवद्विवक्षितार्थसाधनसमर्था गोपालदारकाद्या नामेन्द्रादयोऽतः किमत्र भावार्थशून्यैर्नामादिभिरिति चेन्न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्ततः सिद्धसाधनम् । अविशिष्ट इन्द्रादिवस्तुन्युच्चरिते नामादिकं भेदचतुष्टयमपि प्रतीयत एव, किमनेन नामेन्द्रो विवक्षित आहोस्वित्स्थापनेन्द्र उत द्रव्येन्द्रो भावेन्द्रो वेति । अतस्सामान्येनेन्द्रवस्तुनश्चत्वारोऽप्यमी पर्याया भावविशेषा एव । अथ विशिष्टार्थक्रियासाधकं भावेन्द्रादिकं भावमाश्रित्य वस्तुत्वसाधनेऽपि न काचित्क्षतिः, भावेन्द्रादेर्भावस्य विशिष्टक्रियानिवर्तकत्वे नामेन्द्रादिपर्यायाणामपि तद्रष्टव्यमेव । द्रव्यरूपतया पर्यायाणां परस्परमभेदात् । भावपरिणामनिमित्तभावाद्वा नामस्थापनाद्रव्याणां भावाङ्गतयोपयोगः, जिननामजिनस्थापनामुक्तिगतमुनिदेहदर्शनाद्भावोल्लासात् । केनचिदुच्चरितं हि जिननाम श्रुत्वा जिनप्रतिमास्वस्तिकादीनि प्रेक्ष्य परिनिर्वृतमुनिदेहं भविष्यद्यतिपर्यायं जनं वाऽवलोक्य च प्रायशस्सम्यग्दर्शनादिभावपरिणामो दृश्यते । अयन्त्वत्र विशेषो नामादित्रयमनैकान्तिकं समीहितसाधने निश्चयाभावादनात्यन्तिकञ्च कारणमात्यन्तिकप्रकर्षप्राप्ततथाविधविशिष्टफलसाधकत्वाभावात् । भावस्त्वैकान्तिकः, आत्यन्तिककारणञ्चातौऽभ्यर्हिततम इति । अयञ्च नामादीनां प्रधानेतरभावो भिन्नवस्तुगतापेक्षया, अभिन्नवस्तुगतानान्तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम् । सर्वस्य हि वस्तुनस्स्वाभिधायकं नामरूपम्, यथाऽऽतानवितानीभूततन्तुसन्तानः पट इति, ऊर्ध्वकुण्डलेष्वायतवृत्तग्रीवो घट इत्यादि । स्वाकारः स्थापनारूपः, यथा सर्ववस्तुनः स्वस्वाकारः । अतीतानागतभावकारणं द्रव्यम्, कार्यापन्नञ्च स्वं भावरूपम्, यथा मृत्पिण्डादिवस्तुनो जन्यत्वापन्नं घटादिकम् । इत्थं सर्वं वस्तु चतूरूपाविनाभूतं दृष्टमेवमेव
१. अनेन यद्यद्वस्तु तत्तन्निक्षेपचतुष्टयवदिति व्याप्तिर्लभ्यते 'जत्थ य जं जाणिज्जा णिख्खेवं णिख्खेवे णिरवसेसं । जत्थवि य ण जाणिज्जा चउक्कयं णिखलेवे तत्थ' इत्यनुयोगद्वारसूत्राच्च । तथापि प्रायिकीयं व्याप्तिरप्रज्ञाप्ये वस्तुनि नाम्नोऽप्रयोगात्, जीवत्वेन द्रव्यत्वेन च भूतभविष्यत्पर्यायभावेन तत्कारणत्वाभावाज्जीवे द्रव्यनिक्षेपस्यायोगाच्च । उक्तं तत्वार्थटीकाकृता 'यद्येकस्मिन्न सम्भवति नैतावता भवत्यव्यापिते' ति । अप्रज्ञाप्यजीवद्रव्यभिन्नं यद्यद्वस्तु तत्तन्निक्षेपचतुष्टयवदिति व्याप्तेर्वा विवक्षणादिति ॥