________________
४७५
द्वितीयो भाग / सूत्र - २४, नवमः किरणे स्मरणमप्युनुपकारि स्यात्, नाम्नः पुद्गलात्मकत्वेनात्मानुपकारित्वात् । न च नाम्नः स्मरणेन नामिस्मरणे तद्गुणसमापत्त्याऽस्ति फलमिति वाच्यम्, भगवत्प्रतिमादर्शनादपि सकलातिशायिभगवद्गुणध्यानस्य सुतरां सम्भवात् । सिद्ध एव च बहूनां प्रतिमादर्शनाद्बोध्युदयोऽपि । न च नाम्नो नामिना सह वाच्यवाचकभावसम्बन्धोऽस्ति न स्थापनाया इति विशेष इति वाच्यम्, इतरनिक्षेपानिरूपकेण भावनिक्षेपेण सह नामस्थापनयोस्सम्बन्धाविशेषात् । वाच्यवाचक भावसम्बन्ध एव ग्राह्यो न स्थाप्यस्थापकभाव इत्यत्र विनिगमकाभावात्, तस्मात्त्वया नामस्थापनाद्वयमेव भगवदध्यात्मोपनायकत्वाविशेषण वन्द्यं स्यात् द्वयमेव वा त्याज्यं स्यात्, अन्तरङ्गप्रत्त्यासत्यभावस्य तुल्यत्वात्, न चैतदिष्टम्, परेणापि नाम्नोऽङ्गीकारात् । तथा च स्थापना यद्यवन्द्या स्यात्तदा नामाप्यवन्द्यं स्यादिति विपर्यपर्यवसायकस्तर्कः, भावनिक्षेपो यद्यवन्द्यस्थापनानिक्षेपप्रतियोगी स्यादवन्द्यनामनिक्षेपप्रतियोग्यपि स्यादित्य-निष्टप्रसञ्जकस्तर्को बोध्यः । तथा च निक्षेप्यमाणभावार्हतोऽभेदबुद्धेर्नामादित्रयमेव कारण-मागमप्रामाण्यात्स्वानुभवाच्च । एतेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादिनिक्षेपत्रयस्याहत्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावनिक्षेपं पुरस्कुर्वतां मतं व्युदस्तम् । निक्षेपत्रयानादरे भावोल्लासस्यैव कर्तुमशक्यत्वात्, शास्त्र इव नामादित्रये हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हृदयमिवानुप्रविशति, तन्मयीभावमिवापद्यते, तेन सर्वकल्याणसिद्धिस्तस्माद्भावोल्लासस्तदधीनो नहि नैसर्गिक एव भावोल्लास इत्यस्ति जैनमत एकान्तः, सर्वव्यवहारविच्छेदप्रसङ्गात् । न च भावार्हद्दर्शनं भव्यानां यथा स्वगतफलं प्रत्यव्यभिचारि न तथा निक्षेपत्रयप्रतिपत्तिरिति तदनादर इति वाच्यम्, स्वगतफले स्वव्यतिरिक्तभावनिक्षेपस्याप्यव्यभिचारित्वाभावात, नहि भावार्हन्तं दृष्ट्वा भव्या अभव्या वा प्रतिबुद्ध्यन्त इति । स्वगतभावोल्लासनिमित्तत्वन्तु समानं निक्षेपचतुष्टयेऽपि एतेन स्वगताध्यात्मोपनायकतागुणेन वन्द्यत्वमपि चतुष्टयाविशिष्टमेव । शिरश्चरणसंयोगरूपवन्दनस्य भावभगवतोऽपि शरीर एव सम्भवात्, न त्वरूपे भावभगवति, आकाश इव तदसम्भवात् । भावसम्बन्धाच्छरीरसम्बद्धं वन्दनं भावस्यैवाऽऽयातीति तु नामादिष्वपि तुल्यमेव । न च महानिशीथे भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तमतो निक्षेपत्रयस्याकिञ्चित्करत्वमिति भावनिक्षेपं पुरस्कुर्वतां कोऽपराध इति वाच्यम्, तद्वचनस्य परमशुद्धभावग्राहिनिश्चयनयविषयत्वात्, यन्मते ह्येकस्यापि गुणस्य त्यागे मिथ्यादृष्टित्वमिष्यते तन्मते निक्षेपान्तरानादरेऽपि नैगमादिनयवृन्देन नामादिनिक्षेपाणां प्रामाण्याभ्युपगमात्क इव व्यामोहो भवतः, सर्वनयसम्मतस्यैव शास्त्रार्थत्वात्, अन्यथा सम्यक्त्वचारित्रैक्यग्राहिणा निश्चयनयेना