________________
४७४
तत्त्वन्यायविभाकरे द्रव्यादिभेदैर्व्यवस्थाप्यतेऽनेनास्मिन्नस्माद्वेति निक्षेपः, प्रकरणादिवशेनाप्रतिपत्त्यादिव्यवच्छेदक यथास्थानविनियोगाय शब्दार्थरचनाविशेषो निक्षेपः । मङ्गलादिपदार्थनिक्षेपानाममङ्गलादिविनियोगोपपत्तेश्च निक्षेपाणां फलवत्त्वम्, अप्रस्तुतार्थापाकरणात्प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवानित्यभियुक्तोक्तेः । स जघन्यतोऽपि चतुर्विधः नामस्थापनाद्रव्यभावभेदात् । अन्यार्थे स्थितोऽपि स्वार्थनिरपेक्षस्समानार्थकशब्दानभिधेयो विवक्षितार्थसङ्केतवान् नामनिक्षेपः । यथा सङ्केतितमात्रेणान्यार्थस्थितेनेन्द्रादिशब्देन गोपालदारकोऽभिधीयते, स च गोपालदारको नेन्द्रसमानार्थकशक्रादिपर्यायशब्दाभिधेयोऽतो गोपालदारकादौ इन्द्राद्यभिधानं यत् क्रियते तन्नाम भण्यते । यद्यपि समानार्थकशब्दानभिधेयत्वं गोपालदारकगतधर्म एव तथापि नाम्न्युपचरितोऽवसेयः ॥ अन्यत्रावर्त्तमानमपि यदृच्छयैवमेव गोपालदारकादेर्डित्थोडवित्थ इत्याद्यभिधानं क्रियते तदपि नामेति सूचयितुमन्यार्थे स्थितोऽपीत्यत्रापिशब्दः । तदिदं नाम द्विविधं यावद्द्रव्यभाव्ययावद्दव्यभावि चेति, मेरुद्वीपसमुद्रादिनाम यावद्रव्यभावि यावत्तच्छब्दवाच्यद्रव्यावस्थानं तावत्तत्तन्नाम्नो वृत्तेः । देवदत्तादिनाम तु न यावत्तद्वाच्यद्रव्यावस्थानमवतिष्ठते, अपरापरनामपरावर्तस्य लोके दर्शनात्, ततस्तन्नामायावद्रव्यभाव्युच्यते । अपिशब्दोऽन्यस्यापि समुच्चायकस्तेन पुस्तकपत्रचित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्य सङ्ग्रहः ॥ सद्भूतार्थाध्यवसायेन सद्भूतार्थशून्यं सद्भूतार्थसमानाकारं निराकारं वाऽल्पकालीनं यावत्कथिकं वा यद्वस्तु स्थाप्यते सा स्थापना । यथा सद्भूतेन्द्रसमानाकारं चित्रलेप्यकाष्ठपाषाणादिषु, अक्षादिषु निराकारमिन्द्रस्थापनम्, एतच्चत्वरकालम् । नन्दीश्वरचैत्यप्रतिमादि तु यावत्कथिकम् । अत्र केचित्स्थापनामत्यन्तानुपयोगिनी मन्वते तदतीव तुच्छम् । नामादिवत्स्थापनाया अप्युपकारित्वात् । यदि भगवदादीनां स्थापनाऽनुपकारिणी स्यान्नाम
१. निक्षेपणं शास्त्रादेर्नामस्थापनादिभेदैर्व्यसनं स्थापनमिति वा निक्षेपः, सोऽयं जघन्यतोऽपि चतुर्विधो दर्शनीयः, यत्र तावन्नामस्थापनाद्रव्यक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञाप्यन्ते तत्र तैस्सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वे भेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, नहि किमपि तादृशं वस्त्वस्ति यन्नामादिचतुष्टयं व्यभिचरतीति भावः ॥ २. ननु गङ्गायां घोष इत्यादौ गङ्गादिपदेन गङ्गातीराद्यभिधीयते, तत्र किं नामनिक्षेपस्य प्रवत्तिर्निक्षेपान्तरस्य वा. नाद्यः. जाहव्यादिपर्यायशब्दाभिधेयत्वेन नामनिक्षेपाप्रवत्तेः, न द्वितीयः प्रसिद्धनिक्षेपान्तराविषयेऽप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रसङ्गादिति चेन्न, यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभावात् । आभिप्रायिक्यास्स्थापनाया वैज्ञानिकस्य भावनिक्षेपस्य च स्वीकारे दोषाभावात् । गङ्गापदेन तीरे गङ्गाभेदाभिव्यक्तिं विना गङ्गागतशैत्यपावनत्वादिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात् । भावनिक्षेपविषयाभेदव्यवहारौपयिकरूपरहितत्वविशेषणेनातिव्याप्तिविरहादिति ॥ ३. स्थापनाबुद्धेः स्थाप्यस्मृतिद्वारा स्थाप्यगतगुणप्रणिधानोद्रेकस्य तज्जन्यनिर्जरातिशयस्य वा फलत्वम् । स्थापनाविषये उत्कटदोषे प्रतिसन्धीयमाने तु न सा फलवतीति बोध्यम् ॥