________________
द्वितीयो भाग / सूत्र - २१-२२-२३, नवमः किरणे
४६९
સમભિરૂઢનયાભાસ ભાવાર્થ – “પર્યાયવાચક શબ્દોનો વ્યુત્પત્તિના ભેદથી અર્થનો ભેદ જ છે, અર્થગત અભેદ પણ નથી. આવો જે અભિપ્રાય, તે “સમભિરૂઢનયાભાસ' છે. જેમ શક્ર-પુરન્દર-ઇન્દ્ર આદિ શબ્દોનો અર્થભેદ જ, કેમ -भिन्न २०६ छ. मेवो मेवो ममियाय."
विवेयन - दृष्टान्तने छ :-'यथे'ति री-पुरंग-तुरं शनी भाई भिन्न श६ डोवाथी शॐ આદિ પર્યાયશબ્દોનો અર્થભેદ જ છે, પરંતુ એક અર્થ નહિ. આવો અભિપ્રાય, એ “સમભિરૂઢનયાભાસ' उपाय छे.
एवम्भूतनयाभासमाह -
प्रवृत्तिनिमित्तक्रियाविरहितमर्थं शब्दवाच्यतया सर्वथाऽनभ्युपगच्छन्नभिप्रायविशेष एवम्भूतनयाभासः । यथा घटनक्रियाविरहितघटादेर्घटादिशब्दवाच्यत्वव्युदासाभिप्राय इति ॥२३॥
प्रवृत्तिनिमित्तेति । स्वव्युत्पत्तिनिमित्तक्रियाविशिष्टं वस्तु ध्वनिवाच्यतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तदवाच्यतया प्रतिक्षिपति न तूपेक्षते स एवम्भूतनयाभास इति भावः, व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वमस्य मतमिति द्योतयितुं प्रवृत्तिनिमित्तेत्युक्तम् । निदर्शनमस्याह यथेति, एवमेव द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः, पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः, अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः, शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः, अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन्नर्पितनयाभासः, अनर्पितमभिप्रायन्नर्पितं प्रतिक्षिपन्ननर्पितनयाभासः, एवमेव निश्चयनयाभासादिकं भाव्यम् ।।
ननु यद्येकैकधर्मसमर्थनपरायणाश्शेषधर्मतिरस्कारिणोऽभिप्राया दुर्नयतां प्रतिपद्यन्ते तदा वचनमप्येकधर्मकथनद्वारेण प्रवर्त्तमानं सावधारणत्वाच्छेषधर्मप्रतिक्षेपकार्यालीकमापद्यते, ततश्चानन्तधर्माध्यासितवस्तुसन्दर्शकमेव वचनं यथावस्थितार्थप्रतिपादकत्वात्सत्यम् न चैवं वचनप्रवृत्तिः, घटोऽयं शुक्लो मूर्त इत्याद्येकैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोगदर्शनात्, सर्वधर्माणां यौगपद्येन वक्तुमशक्यत्वात्, तदभिधायकानामप्यानन्त्यात् । न चैकैक धर्मसन्दर्शकत्वेऽप्यमूनि वचनान्यलीकानि वक्तुं पार्यन्ते, समस्तशाब्दव्यवहारोच्छेदप्रसङ्गात् । तदलीकत्वे ततः प्रवृत्त्यसिद्धेश्चेति चेदत्रोच्यते, द्विविधा वस्तुप्रतिपादकाः लौकिकास्तत्त्वचिन्तकाश्चेति, अर्थित्वेन प्रत्यक्षादिप्रसिद्धमर्थं लौकिकास्तावन्मध्यस्थभावेन व्यवहारकाले
१. तादृशपदार्थाप्रसिद्धया निरालम्बनत्वादिति भावः ॥२.सर्वं वाक्यं सावधारणमिति न्यायादिति ॥