________________
तत्त्वन्यायविभाकरे
व्यपदिशन्ति, नीलमुत्पलं सुगन्धि कोमलमिति, न तु तद्धर्मिगतधर्मान्तरग्रहणनिराकरणयोराद्रियन्ते, अनर्थित्वात्, तावतैव विवक्षितव्यवहारपरिसमाप्तेः । न च तद्वचनानामलीकता, शेषधर्मान्तरानिराकरणात् तथात्व एवालीकत्वात् । न च सर्वं वचनं सावधारणमिति न्यायेन तेषामपि वचनानामितरधर्मतिरस्कारत्वसिद्धेरलीकत्वमेव स्यादिति वाच्यम्, अवधारणस्य तदसंभवमात्रव्यवच्छेदे व्यापारात्, अनेकपुरुषसम्पूर्णे सदसि द्वारादौ स्थितस्य किमत्र देवदत्तस्समस्ति नास्तीति वा दोलायमानबुद्धेः केनचिदभिधीयते यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्तत्पदद्वयस्य सावधारणता गम्यते, अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गात्, तथाप्यवधारणं तदसंभवमात्रं व्यवच्छिनत्ति न शेषपुरुषान्तरान् । नापि पररूपेण नास्तित्वं, तद्व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्याप्रयोगात्, प्रयोक्तुरभिप्रायादिसापेक्षतयैव शब्दस्य स्वार्थप्रतिपादनसामर्थ्यात् । न च वाच्यवाचकभावसम्बन्धानर्थक्यम्, तदभावे प्रयोक्त्रभिप्रायादिमात्रेण नियोक्तुमशक्यत्वात् । न च समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद्वचनं सत्यमभिदध्महे, येनैकेकधर्मालिङ्गितवस्तुसन्दर्शकानामलीकता स्यात्, किन्तु सम्भवदर्थप्रतिपादकं सत्यमिति, सम्भवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापन्ना धर्माः, तस्मात्तत्प्रतिपादकं सत्यमेव । यदा दुर्नयमताभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तर निराकरणाभिप्रायेणैव सावधारणं तत्प्रयुज्यते यथा नित्यमेव वस्तु अनित्यमेव वेत्यादि, तदा निरालम्बनत्वादलीकतां प्राप्नु - वत्केन वार्येत । तत्त्वचिन्तका: पुन: प्रत्यक्षादिप्रमाणसिद्धमनेकान्तात्मकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुः सकलादेशेन विकलादेशेन वा, तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणाधीनः । मध्यस्थभावेन ह्यर्थित्ववशात्कञ्चिद्धर्मं प्रतिपिपादयिषवश्शेषधर्मस्वीकारनिराकरणविमुखया धिया वाचं प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत्संमुग्धाकारतयाऽऽचक्षते जीवोऽस्ति कर्त्ता भोक्ता प्रमातेत्यादि । अतस्सम्पूर्णवस्तुप्रतिपादनाभावद्विकलादेशोऽभिधीयते । यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाऽङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति स्यादस्त्येव जीव इत्यादिकया । अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनस्सन्दर्शकत्वात्सकलादेश उच्यते । तस्मान्नयप्रमाणाभिज्ञः स्याद्वादी सकलादेशविकलादेशावधिकृत्य यद्यद् ब्रूते तत्तत्सत्यं दुर्नयमतावलम्बिनो यद्यदाचक्षते तत्तदलीकमिति ॥
४७०