________________
४५२
तत्त्वन्यायविभाकरे
शब्दानुविद्धाध्यक्षप्रत्यये प्रतिभासस्याभ्युपगमे तत्प्रत्ययस्य निर्विषयतया भ्रान्तस्यापि वस्तुव्यवस्थापकत्वे सर्वः प्रत्ययः सर्वस्यार्थस्य व्यवस्थापकः स्यादित्यतिप्रसङ्गः, तन्न घटनसमयात्प्राक् पश्चाद्वा घटस्तद्व्यपदेशमासादयतीत्येवम्भूतनयमतम् । नन्वेतन्मते व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वेन केनचिद्रूपेणास्यानतिप्रसक्तत्वं वाच्यम्, इतरथा गच्छतीति गौरिति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात्, मैवम् प्रसिद्धार्थपुरस्कारेण प्रवृत्तस्यैवंभूतनयस्य स्वार्थातिप्रसङ्गो न दूषणं किन्तु तन्निवारकनयान्तरोपायकत्वेन भूषणमेव, एतदुपजीवी व्यवहारस्तु यथावृत्ति, एतेन राजन्शब्दस्य छत्रचामरादिशोभाविरहकाले राजपदव्युत्पत्तिनिमित्ताभावेऽपि इतरातिशयपुण्यादिप्रयुक्तराजनस्यानतिप्रसक्तस्य सत्त्वेन राजा वाच्य एवेति व्युदस्तम् । एवम्भूतनयस्योदाहरणमाह यथेति, समभिरूढो हि सत्यामसत्याञ्चेन्दनक्रियायां वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रैति क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात्, पशुविशेषस्य गमनक्रियायां सत्यामसत्याञ्च गोव्यपदेशवत् तथारूढेस्सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिगतमर्थं तत्तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते, नहि कश्चिदक्रियशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् गच्छतीति गौराशुगामित्वादश्च इति, शुक्लो नील इत्यादिगुणशब्दाभिमता अपि क्रियाशब्दा एव, शुचीभवनाच्छुक्लो नीलनान्नील इति, देवदत्तो यज्ञदत्त इत्यादियादृच्छिकशब्दाभिमता अपि क्रियाशब्दा एव देव एनं देयाद्यज्ञ एनं देयादिति । संयोगिद्रव्यवाचकशब्दास्समवायिद्रव्यवाचक शब्दा अपि क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी विषाणमस्यास्तीति विषाणीत्यादिक्रियाप्रधानत्वादिति । एवमेतन्मते सत्त्वादियोगात्सदादिसंश्यपि तत्तत्पर्यायभाक्त्वेनात्मादिसंज्ञाधार्यपि सिद्धो न जीवः, जीवप्राणधारण इति धात्वर्थानन्वयात् । एतेन सिद्धो निश्चयतो जीव इति मतमपास्तम्, शुद्धनिश्चयो ह्येवम्भूतनय एव, तन्मतेन तु सिद्धोऽजीव इत्येव प्रसिद्धिः,
औदयिकं भावं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया गृह्णता संसारिण एव जीवशब्दव्यपदेश्यत्वप्रतिपादनात् सिद्धस्य पुद्गलादिद्रव्यस्य वाऽजीवपदार्थत्वस्येष्यमाणत्वादिति ॥
१. औदयिकक्षायिकक्षायोपशमिकौपशमिकपारिणामिकलक्षणैः पञ्चभिर्भावैः पञ्चस्वपि गतिषु जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणौदयिकभावोपलक्षितात्मत्वरूपपारिणामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात् प्रसिद्धनैगम ईदृशपारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपगच्छति, एवम्भूतस्तु व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं गृह्णाति इति भावः ॥