________________
४५१
द्वितीयो भाग / सूत्र - १४, नवमः किरणे विशिष्टार्थाभिधायित्वाभ्युपगमः एवम्भूतनयः । यथा परमैश्वर्यप्रवृत्तिविशिष्ट इन्द्रशब्दवाच्यः, सामर्थ्यक्रियाविशिष्टश्शक्रपदबोध्यः, असुरपुरभेदनक्रियाविशिष्टः पुरन्दरशब्दवाच्य इत्येवंरूपाभिप्रायाः ॥ १४ ॥
तत्तत्कियेति । जलाहरणादिक्रियाविधुरस्यार्थस्य घटादेस्तत्तच्छब्दवाच्यत्वं घटादिशब्दवाच्यत्वमप्रतिक्षिपन् द्वेषबुद्ध्याऽनिराकुर्वन् जलाहरणादिक्रियाविशिष्टमेव घटादिकं घटादिशब्दो वक्तीत्येवंरूपोऽभिप्राय एवम्भूतनय इति भावः । तथा च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमिति निष्कर्षः । नियमश्च देशतः कालतश्चातो न समभिरूढादावतिव्याप्तिः । या क्रिया विशिष्टशब्देनोच्यते तामेव क्रियां कुर्वद्वस्तु एवंभूतशब्देनोच्यते तत्प्रतिपादको नयोऽप्युपचारादेवम्भूतः, अयं व्यञ्जनार्थोभयं स्थापयति, शब्दं अर्थेनार्थश्च शब्देनेति, यथा घटचेष्टायां घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इत्यत्र तदैवासौ घटो यदा तादृशचेष्टावान् नान्यदा, घटशब्दोऽपि तादृशचेष्टाकारिण एव वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते घटशब्दस्यापि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यते, तथा च प्रयोगो यथाऽभिधायकश्शब्दस्तथैवाभिधेयं प्रतिपत्तव्यं, तथाभूतार्थस्यैव प्रत्ययसम्भूतेः प्रदीपवत्कुम्भवद्वा, प्रदीपशब्देन हि प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन् तथाहि यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुच्चरिते किमनेन प्रदीपेन प्रकाशवानर्थोऽभिहितः किंवाऽप्रकाशकोऽप्यन्धोपलादिरिति संशयः, अन्धोपलादिरेवानेनाभिहितो न दीप इति विपर्ययः, तथा दीप इत्युक्तेऽन्धोपलादौ चोक्ते दीपे प्रत्ययात्पदार्थानामेकत्वं साङ्कथं वा स्यात्तस्माच्छब्दवशादेवाभिधेयमभिधेयवशाच्च शब्द इति । एवञ्च संज्ञाभेदाद्वस्तुभेदवत् क्रियाभेदादपि, सा च क्रिया तद्भेस्त्री यदेव तामाविशति तदैतनिमित्तं तत्तद्वयपदेशमासादयति नान्यदाऽतिप्रसङ्गात् । यदा घटते तदैवासौ घटो न पुनर्घटितवान् घटिष्यते वा घट इति व्यपदेष्टुं युक्तः, सर्ववस्तूनां घटतापत्तिप्रसङ्गात् किञ्च चेष्टासमये एव वस्तु चक्षुरादिव्यापारसमुद्भूतशब्दानुविद्धप्रत्ययमास्कन्दति, चेष्टावन्तः पदार्था इति, यथावस्थितार्थप्रतिभास एव च वस्तूनां व्यवस्थापको नान्यथाभूतोऽन्यथा चेष्टावत्तया
१. योऽर्थो यद्देशे यत्काले व्युत्पत्त्यर्थेन सम्बद्धः सोऽर्थस्तत्र तदानीं तच्छब्दबोध्यः, तथा चायं नयो यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तभूतोऽर्थो यदैव वर्तते तदैव तं शब्दं प्रवर्त्तमानमभिप्रैति, नातीतां भाविनी वा चेष्टामधिकृत्य सामान्येनैवोच्यते शब्दः, तयोविनष्टानुत्पन्नत्वेन कूर्मरोमकल्पत्वात् यद्यतीतभाविचेष्टापेक्षयां घटादिशब्दोऽचेष्टावत्यपि प्रयुज्येत तर्हि कपालमृत्पिण्डादावपि प्रयुज्यतां विशेषाभावात्तस्माद्यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तदैव सोऽर्थस्तच्छब्देन वाच्य इति निर्गलितार्थः॥