________________
४४८
तत्त्वन्यायविभाकरे
लाघवाच्च, नहि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थरूपतामेति, अन्यथा घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिर्वा इति संशयो विपर्ययो वा भवेत् घटादावपि पटादिनिश्चयात् पटादौ वा घटाध्यवसायादेकत्वं घटपटाद्यर्थानां प्राप्नुयात् मेचकमणिवत्सङ्कीर्णरूपता वा घटपटाद्यर्थानां भवेत्, तथा च घटकुम्भकलशादिशब्दवाच्यानामर्थानां परस्परं भेद उचितः, वाचकध्वनिभेदात्, घटपटस्तम्भादिशब्दवाच्यार्थवदिति प्रयोगः । न च नानार्थंकशब्दवाच्यानामर्थानां भेद इव भिन्नशब्दवाच्यानामपि भेदो न भवेदिति वाच्यम्, भिन्नशब्दवाच्यत्वस्यार्थभेदव्याप्यत्वात्, नहि व्याप्यस्याभावात्क्वचिदपि व्यापकस्याभाव इष्टः, तस्मान्नानार्थस्थले शब्दभेदादर्थभेदाभावेऽपि लक्षणस्वरूपादिभेदाढ़ेदो भविष्यति, न ह्यर्थभेदे प्रतिनियतमेकमेव प्रयोजकं, भिन्नशब्दवाच्यतया तु भिन्नकालवृत्तितयेवार्थभेदो ध्रुव एव । यदि भिन्नशब्दवाच्यत्वमर्थभेदव्यापकं भवेत्तदा व्यापकाभावाव्याप्याभावो भवदुक्तस्सङ्गच्छेत तदेव नेष्टमिति । न चास्य मते शब्दभेदादेव यद्यर्थभेदस्तदा व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तमित्यायातं तथा च डित्थडवित्थादिपारिभाषिकसंज्ञा न भवेयुः, तेषामिच्छामात्रनिमित्तत्वेन यथास्थितव्युत्पत्तिनिमित्ताभावादिति वाच्यम्, इष्टापत्तेः, शब्दार्थस्य स्वाभाविकधर्मनिबन्धनत्वात् तत्रेच्छाया अनिबन्धनत्वात् तस्मादिच्छाविशिष्टशक्त्यभावात्तेषामबोधकत्वमेवेति, एवं घटादेः कुम्भकलशादिकमेतन्मते पर्यायवचनं नास्त्येव, एकस्मिन्नर्थेऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति । अथ समभिरूढनयं दृष्टान्तयति यथेति, तथा च परमैश्वर्यशालित्वमिन्द्रशब्दस्य, सामर्थ्यं शक्रशब्दस्य, असुरपुरविभेदनं पुरन्दरशब्दस्य प्रवृत्तौ निमित्तं स्फुटमिति निरुक्तिभेदतः पर्यायवाचिशब्दानां भिन्नार्थत्वम्, प्रयोगश्च पर्यायशब्दा विभिन्नार्थाः प्रविभक्तव्युत्पत्तिनिमित्तकत्वात्, इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः नैतेऽभिन्नार्था यथा इन्द्रघटपुरुषादिशब्दाः विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । यत् पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं तत्त्वतिप्रसङ्गेन न युक्तम्, युक्तिरिक्तप्रतीतिशरणीकरणे हि मन्दप्रकाशे दवीयसि देशे सन्निविष्टविभिन्नशरीराणामपि निम्बकदम्बाश्वत्थकपित्थादीनामेकतर्वाकारतया प्रतीयमानानामेकत्वाभ्युपगमप्रसङ्गः स्यादिति पर्यायशब्दानां भिन्नार्थत्वमेवेत्याशयेनाहात्र हीति । तेभ्यः सर्वदैवेकाकारपरामर्शोत्पत्त्याऽस्स्वलद्वृत्तितया तथैव व्यवहाराच्च पर्यायशब्दार्थानामभेदं गौणीकरोति नयोऽयमित्याशयेनाहात्रापीति ॥
१. न ह्यर्थभेदे शब्दभेद एक एव प्रयोजको येन नानार्थस्थले शब्दभेदाभावादाभेद आपद्यतेति भावः ॥