________________
४२२
तत्त्वन्यायविभाकरे सन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति पर्यायेभ्य एवार्थक्रियासम्भवात्, अप्रच्युतानुत्पन्नस्थिरैक स्वभावस्य वस्तुनोऽर्थक्रियाऽसम्भवेनासत्त्वमेव यतस्सत्त्वमर्थक्रियाकारित्वं, तच्च क्रमयोगपद्याभ्यां व्याप्तं, नहि क्रमाक्रमाभ्यामन्यः प्रकारः सम्भवति व्याघातात, तौ च स्थिरेऽसम्भवन्तावर्थक्रियामपि ततो व्यावर्त्तयतः, सा च व्यावर्त्तमानाऽर्थक्रिया सत्त्वं स्वव्याप्यमपि व्यावर्त्तयतीत्यसन्नेव स्थिरो भाव इत्येवमभिप्रायाः पर्यायार्थिकनया इति भावः । एतदभिप्रायेणैवोभयस्य क्रमेण हेतुमाह द्रव्यमात्रेति, मात्रपदेन पर्यायव्यवच्छेदः, पर्यायमात्रेत्यत्र मात्रपदेन द्रव्यव्यवच्छेदः । एतेन सप्तनयाधिकत्वादनयोर्नयस्य नवविधत्वमिति प्रत्युक्तम्, ननु गुणविषयस्तृतीयो गुणार्थिक इति कुतो नोक्त इत्यत्राह गुणानामिति, तथा च पर्यायार्थिक इति पर्यायशब्देन सहक्रमभाविविशेषमात्रस्य परिग्रहेण तत्रैव सहभाविगुणानामन्तर्भावान्नाधिक्यप्रसङ्गः । ननु द्रव्यपर्यायव्यतिरेक्तौ सामान्यविशेषौ विद्येते ततस्तद्विषयकं नयद्वयं स्यादित्याशङ्कायामाहोर्ध्वतेति, तिर्यगूर्ध्वताभेदेन द्विविधं हि सामान्यं तत्रोर्खतासामान्यस्य द्रव्यात्मकत्वेन द्रव्ये, प्रतिव्यक्ति सदृशपरिणामलक्षणस्य व्यञ्जनापरपर्यायस्य तिर्यक्सामान्यस्य पर्याय एवान्तर्भाव इति भावः । तिर्यक्सामान्यस्य व्यञ्जनापरपर्यायत्वं कथमित्यत्राह स्थूला इति, प्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्याय इति भावः, स्थूलाः कालान्तरस्थायिन इत्यनेन भूतभविष्यत्त्वसंस्पर्शरहितवर्तमानकालावच्छिनवस्तुस्वरूपार्थपर्यायस्य व्यवच्छेदः । शब्दानां संकेतविषया इति, शब्दप्रवृत्तिनिमित्तभूता इत्यर्थः वैसादृश्यविवर्त्तलक्षणविशेषस्य पर्यायरूपत्वस्य स्पष्टतया पृथक्पर्यायान्तर्भूतत्वेन स नोक्तः । निर्गमयति अत इति । अत्र द्रव्याथिकनयस्य त्रैविध्योक्तिर्वादिसिद्धसेनदेवसूरिमतानुसायंभिप्रायेण, जिनभद्रगणिक्षमाश्रमणवचनानुसारिणामभिप्रायेणत्वाद्याश्चत्वारो द्रव्यार्थिकनया बोध्याः, तत्र द्रव्यमृजुसूत्रो यदि नाभ्युपेयात्तदा "उजुसुयस्स एगे अणुवउत्ते एगं दव्वावस्सयं पुहत्तं णेच्छइ" इति सूत्रं विरुध्येतेति क्षमाश्रमणानुयायिनामभिप्रायः । तार्किकानुसारिणस्तु अतीतानागतपरकीय
१. तथा च परस्परविविक्तसामान्यविशेषविषयत्वाद् द्रव्यपर्यायार्थिकावेव नयौ न च तृतीयं प्रकारान्तरमस्ति यद्विषयोऽन्यस्ताभ्यां व्यतिरिक्तो नयः स्यात् तद्भेदा एव नैगमादयः । न च द्रव्यपर्याययोस्सम्बन्धरूपोऽन्यो विषयोऽस्ति तस्मात्तद्विषयेण केनचिन्नयेन भाव्यमिति वाच्यम्, भेदाभेदविनिर्मुक्तस्यान्यस्य सम्बन्धस्याभावात् भावे वा द्रव्यपर्यायविकल्पानतिवृत्तेः, तत्स्वभावातिक्रमे वा नभस्सरोजसदृशत्वप्रसक्तेः, ताभ्यां सर्वथाऽर्थान्तरस्य सम्बन्धस्य प्रतिपादनोपायासम्भवात् सम्बन्धस्य ताभ्यामसम्बन्धे च तयोरेव स इति व्यपदेशासम्भवात् सम्बन्धान्तरकल्पनायामनवस्थापत्तेश्च न कोऽपि सम्बन्धस्सिद्धयतीति न कोऽप्येतन्नयद्वयबहि विविषयस्सिद्धयतीति भावः ॥