________________
द्वितीयो भाग / सूत्र - ४, नवमः किरणे
४२१
જે બૌદ્ધો, ક્ષણક્ષયી, પરમાણુરૂપ વિશેષો સત્ય છે એમ માને છે, તેના સમુદાયથી ઘટિત “ઋજુસૂત્ર છે. વળી જેઓ શબ્દવિચાર ચતુર છે, તેઓ શબ્દ આદિ નયત્રયમાં અંતભૂત થાય છે તથા જે મીમાંસકો રૂઢિથી શબ્દોની પ્રવૃત્તિને ઇચ્છે છે, બીજા પ્રકારે નહિ, તેનાથી જન્ય “શબ્દ” છે. વળી જેઓ વ્યુત્પત્તિથી શબ્દોની પ્રવૃત્તિને ઇચ્છે છે, તેના સમૂહથી સાધ્ય “સમભિરૂઢ' છે. વળી જેઓ વર્તમાનકાળ ભાવિ વ્યુત્પત્તિજન્ય નિમિત્તનો અધિકાર કરીને શબ્દો પ્રવર્તે છે, બીજા પ્રકારે નહિ-આમ માને છે, તેનાથી સંઘટિત ' भूत' छे.
૦ તેથી આ પ્રમાણે વસ્તુવિષયવાળો તે કોઈ વિકલ્પ નથી, કે જે આ નયસપ્તકમાં અંતભૂત ન થાય. માટે સર્વ અભિપ્રાય સંગ્રાહકો આ સાત નયો છે એમ સમજવું.
उक्ताभिप्रायविशेषान् द्विधा सङ्ग्रह्य दर्शयति -
आद्यास्त्रयो द्रव्यार्थिकनयाः, परे चत्वारः पर्यायार्थिकनयाः, द्रव्यमात्रविषयकत्वात् पर्यायमात्रविषयकत्वाच्च । गुणानां पर्यायेऽन्तर्भावः, ऊर्ध्वतासामान्यस्य द्रव्येऽन्तर्भावः, तिर्यक्सामान्यस्य तु व्यञ्जनपर्यायरूपस्य पर्यायेऽन्तर्भावः । स्थूलाःकालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धिः । अतो नाधिकनयशङ्का ॥४॥
आद्या इति । नैगमसङ्ग्रहव्यवहारा इत्यर्थः । द्रव्याथिकनया इति । येष्वभिप्रायेषु द्रव्यमेवार्थो विषयतयाऽस्ति न पर्यायास्ते द्रव्यार्थिकनयाः द्रव्यार्थिकमते हि द्रव्यमेव परमार्थतया सत्, अतो द्रव्याद्भिनं विकल्पसिद्धं गुणपर्यायरूपं तत्त्वं नेष्टं, संवृतिसतोऽपि तस्य परमार्थतोऽसत्त्वात् यथा शुक्तौ रजतभ्रान्तौ सत्यां बाधावतारानन्तरं रजताभावभानेऽपि तत्र शुक्तेर्भासमानत्वाच्छुक्तेस्सत्यत्वं रजतस्य चासत्यत्वं तथा सुवर्णादिषु परस्परसमानाधिकरणानां रूपादिपर्यायाणां परस्परभिन्नकालीनानाञ्च कुण्डलादिपर्यायाणामसत्यत्वं, तदभावभानेऽपि हेम्नः प्रतिभासनाद्धेमद्रव्यस्य सत्यत्वं तथैव परस्परसमानाधिकरणानां परस्परसमानकालीनानां रूपरसादीनामसत्यत्वं तदाधारद्रव्यस्यैव सत्यत्वं, कुण्डलादयो रूपादयश्च वासनाविशेषप्रभवविकल्पसिद्धत्वेनापारमार्थिका इत्येवमभिप्रायो द्रव्यार्थिकनय इति बोध्यम् । परे चत्वार इति, ऋजुसूत्रशब्दसमभिरूद्वैवम्भूताश्चत्वार इत्यर्थः, पर्यायार्थिकनया इति, उत्पादविनाशवदर्थ एव विषयो येषां तादृशा नया इत्यर्थः, एते हि पर्यायलक्षणविषयव्यवस्थापनपराः द्रव्यार्थिक नयाभिप्रेतवस्तुव्यवस्थापनयुक्तिप्रतिक्षेपपराः, पर्यायार्थिकमते हि द्रव्यपदार्थस्सदृशक्षण
१. एतन्मते कालनिष्ठात्यन्ताभावाप्रतियोगित्वमेव सत्यत्वम्, द्रव्यस्य हि कदापि नास्त्यत्यन्ताभाव इति तत्सत्यम्, पर्यायाणान्तु तत्प्रतीयमानकाल एव तत्सत्ताभानेनेतरकाले तदभावसत्त्वादसत्यत्वमिति बोध्यम् ॥