________________
अथ नवमः किरणः
नन्वस्मिन्प्रवचने सर्वं वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावं, अतस्तत्परिच्छेदकतया प्रमाणमपि तादृशमेव, व्यवहारस्त्वसंकीर्णप्रतिनियतधर्मप्रकारकोऽतस्तादृशव्यवहारसिद्धये समर्थः कश्चिदपेक्षणीय एव, यस्तादृशः स एवं नय उच्यत इति तत्प्रबोधनार्थमाह -
श्रुताख्यप्रमाणबोधितांशग्राहकोऽनिराकृतेतरांशो वक्तुरभिप्रायविशेषो नयः ॥१॥
श्रुतेति । श्रुतमार्हतप्रवचनं तद्रूपं यत्प्रमाणं तेन बोधितमनेकान्तात्मकं वस्तु तस्यांश एकदेशो नित्यत्वादिस्तद्ग्राहकः अनिराकृतेतरांशः, अप्रतिषिद्धानित्यत्वाद्येकदेशो यो वक्तुरभिप्रायविशेषस्स नय इत्यर्थः । नय इति, अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयतीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः तदेवोक्तं श्रुताख्यप्रमाणबोधितांशेति । इतरांशप्रतिक्षेपे तु नयत्वव्याहतेराहानिराकृतेतरांश इति, वक्तुरभिप्रायविशेष इत्यनेन ज्ञानरूपस्य नयस्यापेक्षात्मशाब्दबोधत्वं प्रदर्शितं तथा चानन्तधर्मात्मक वस्त्वंशभूतप्रतिनियतधर्मप्रकारकापेक्षात्मकशाब्दबोधत्वं ज्ञानरूपस्य नयस्य स्वरूपम्, नयवाक्यस्य तु तादृशापेक्षात्मकशाब्दबोधजनकवाक्यत्वं स्वरूपं बोध्यम् । अपेक्षात्वञ्च क्षयोपशमजन्यतावच्छेदकजातिविशेषो विलक्षणविषयिता वा । तत्र मानञ्च तद्धर्मप्रतिपक्षधर्मवत्तया ज्ञातेऽपि तद्धर्मवत्तया जायमानस्यानुभवस्यान्यथानुपपत्तिरेव । ननु लोकैः कुम्भोऽस्तीत्यादि
१. दुर्नयस्याप्यधिकृतांशाप्रतिक्षेपकवक्त्रभिप्रायत्वात्तत्रातिव्याप्तिवारणाय श्रुताख्यप्रमाणबोधितांशग्राहकेति । रूपादिग्राहकरसाद्यप्रतिक्षेपकापायादिवारणाय विशेषपदम् ॥ २. असत्त्वप्रतिपक्षसत्त्ववत्तया ज्ञातेऽपि घटेऽसत्त्ववत्ताया अनुभवो जायते स चापेक्षां विना न सम्भवति, निरपेक्षसत्त्वासत्त्वयोरेकत्र परस्परं विरोधात् अनुभूयमानस्य त्वपलापो न सम्भवत्यतिप्रसङ्गादतः अपेक्षावलम्बनेनैव तयोर्व्यवस्था कार्येति सिद्धयत्यपेक्षेति भावः । अनुभवस्यैवासिद्धत्वमाशङ्कते नन्विति ॥