________________
४१२
तत्त्वन्यायविभाकरे वाक्यश्रवणसमनन्तरं कुम्भविषयकशाब्दज्ञानस्यैव स्वात्मन्यनुभवनात्कुम्भविषयकापेक्षात्मक शाब्दबोधस्याननुभवनादपेक्षात्मकनयज्ञानसत्त्वे मानाभाव इति चेन्न, विरुद्धतया भासमानैरनेकैर्धमैमिश्रितस्य वस्तुनोऽपेक्षां विना विवक्षितैकधर्मप्रकारकनिश्चयविषयीकरणासम्भवात् । अनपेक्षात्मकस्य तद्विरुद्धर्मप्रकारकज्ञानस्य तत्रानुपपत्तेः । न चापेक्षां विना लौकिकोऽपि व्यवहारस्सङ्गच्छते, अग्रावच्छेदेन कपिसंयोगाभाववति वृक्षे शाखापेक्षयैव कपिसंयोगवत्त्वव्यवहारात् । ननु धर्माणामप्यनन्तानां धर्नाभिन्नत्वेन धर्मिग्राहकप्रत्यक्षादेव निखिलधर्माकलितवस्तुनो विवक्षितधर्मप्रकारेणापि निश्चितत्वात्किमपेक्षयेति चेत्सत्यं, यद्यप्येकस्मिन् घटादौ गृह्यमाणे तेंद्धर्मद्वारा द्रव्यार्थादेशेन भूतभविष्यद्वर्त्तमानानां तद्वृत्तियावद्धर्माणां ग्रहो जायत एव, यथा परेषां सामान्यलक्षणाप्रत्यासत्तेस्स्थानेऽभिषिक्तस्य घटविषयकतिर्यक्सामान्योपयोगस्य घटत्वव्यापकविषयताकप्रत्यक्षत्वं तादृशज्ञानत्वं वा कार्यतावच्छेदकं तथा घटविषयकोर्खतासामान्योपयोगस्यापि तादात्म्यसम्बन्धेन तादृशप्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा न्यायसिद्धत्वात्, न चैवं सति सर्वस्य सर्वज्ञत्वापत्तिर्दोषः, द्रव्यार्थिकतया तस्या इष्टत्वात् तथापि स्फुटतया प्रतिनियतधर्मप्रकारकबोधस्सापेक्षः, शाब्दस्थले नयापेक्षः, प्रत्यक्षादिस्थलेऽवध्यवच्छेदकादिज्ञानापेक्षः । यथाहि दण्डादिग्रहकाले तत्परिमाणग्रहेऽपि दीर्घत्वप्रकारकमयमस्मादीर्घ इति ज्ञानं नियतावध्यपेक्षं तथा सदसदात्मकवस्तुग्रहेऽपि सत्त्वादिप्रकारकं ज्ञानं स्वद्रव्याद्यपेक्षं, अयमस्माद्दीर्घ इतिवत्सद्रव्याद्यपेक्षयाऽयं सन् परद्रव्याद्यपेक्षया चासन्नित्येव व्यवहारात् । न च व्यवहार एव सापेक्षो न तु बोध इति वाच्यम्, व्यवहारस्य व्यवहर्त्तव्यज्ञानादधिकानपेक्षत्वेन व्यवहर्त्तव्यज्ञानेऽपेक्षाया अविषयत्वे व्यवहारस्य सापेक्षत्वासम्भवात् । सेयं नयप्रवृत्तिहेतुरपेक्षा वास्तविकी, क्वचिद्वैज्ञानिक्यपि यथा बौद्धोपनिषदादिदर्शनभेदः स्वेच्छानिवेशितत्वेनानेकनयविकाररूपोऽपेक्षया व्यक्तः, शुद्धपर्यायविशुद्धद्रव्याद्यपेक्षयैव तत्तदर्थव्यवस्थितेः । नयविशेषतात्पर्यमेतन्न त्वपेक्षेति चेन्न तत्तात्पर्यस्यापि वस्तुसम्बन्धनरूपापेक्षा
१. तथा चानपेक्षात्मकतद्धर्मवत्ताबुद्धि प्रति, अनपेक्षात्मकतदभाववत्तानिश्चयस्यैव प्रतिबन्धकतयाऽपेक्षाया अभावे तद्धर्मवत्तया ज्ञातेऽनपेक्षात्मकतद्विरुद्धर्मप्रकारकज्ञानं न स्यादिति भावः ॥ २. येन धर्मेण धर्मी गृहीतस्तद्धर्मद्वारेत्यर्थः । न्यायनये हि घट एकस्मिन् दृष्टे घटत्वरूपसामान्यलक्षणाप्रत्यासत्त्या सकलघटप्रत्यक्षमङ्गीक्रियते सामान्यलक्षणायाश्च कार्यतावच्छेदकं घटत्वव्यापकविषयिताकप्रत्यक्षत्वं, इदमेवास्मन्मते सामान्यलक्षणास्थानाभिषिक्तस्य तिर्यक्सामान्योपयोगस्य घटविषयकस्य कार्यतावच्छेदकं भवति तथैकधर्ममुखेन घटे ज्ञाते सति तदाश्रयाणां तदभिननानां यावतां धर्माणां ज्ञानमूर्ध्वतासामान्येन भवति, अत ऊर्ध्वतासामान्योपयोगस्य कार्यतावच्छेदकं तादात्म्यसम्बन्धेन घटव्यापकविषयताकप्रत्यक्षत्वं भवति, घटस्य तादात्म्येन व्यापकीभूता विषयता घटाभिन्नयावद्धर्मेष्विति तादृशविषयताकप्रत्यक्षत्वमिति तदर्थ इति भावः ॥